Page #1
--------------------------------------------------------------------------
________________
अज्ञातकर्तृकम् संप्रतिनृपचरित्रम्
संशोधक :- चतुरविजयो मुनि : (ईसवी संवत् १९२० वर्षे प्रकाशितस्य
पुनर्मुद्रणम्)
पार्श्व ईन्टरनेशनल एज्युकेश्नल और
रीसर्च फाउन्डेशन, आंबावाडी, अहमदाबाद ३८० ०१५
Page #2
--------------------------------------------------------------------------
________________
अज्ञातकर्तृकम् संप्रतिनृपचरित्रम्
संशोधक :- चतुरविजयो मुनि : (ईसवी संवत् १९२० वर्षे प्रकाशितस्य
पुनर्मुद्रणम्)
पार्श्व ईन्टरनेशनल एज्युकेश्नल और
रीसर्च फाउन्डेशन, आंबावाडी, अहमदाबाद - ३८० ०१५
Page #3
--------------------------------------------------------------------------
________________
पार्श्व आन्तरराष्ट्रीय ग्रंथमाला-९
संप्रतिनृपचरित्रम्
पुनः मुद्रण प्रकाशक:
डॉ. एस. एस. सिंघवी मेनेजींग ट्रस्टी पार्श्व ईन्टरनेशनल एज्युकेश्नल और रीसर्च फाउन्डेशन, ४-ए, राम्य एपार्टमेन्ट, केतव पेट्रोलपंपके सामने आंबावाडी, अहमदाबाद - ३८० ०१५
मूल्य रूपिया : २०
नकल
: ५००
प्राप्तिस्थान
:
सरस्वती पुस्तक भंडार ११२, हाथीखाना, रतनपोल, अहमदाबाद-३८०००१ फोन : ५६५६६९२
मुद्रक
राकेश एच. शाह राकेश कोम्प्युटर सेन्टर २७२, सेलर, बी. जी. टावर दिल्ही दरवाजा, अहमदाबादा-४. फोन : नं. ६३० ३२००
Page #4
--------------------------------------------------------------------------
________________
General Editors' Foreword
We are grateful to Achārya Vijayapradyumnasūrijī for allowing us to reprint the Samprati Nrpa Caritram was edited by late Chaturvijayajī Muni and which was since long out of print.
Date: 21-12-1999
H. C. Bhayani
Page #5
--------------------------------------------------------------------------
________________
॥ निवेदनम् ॥ श्रीसंप्रतिक्षितिपतेर्वरपद्यबद्धं सम्यक्त्वपोषकमिदं भविनां चरित्रम् । नुन्नः प्रतापविजयेन मुनीश्वरेण हर्षादशोधयमहं लघुधीधरोऽपि ॥ १ ॥ . आदाविहास्ति नहि मंगलमस्तदोषं प्रान्ते प्रशस्तिरपि नो चरितस्य कर्तुः । निष्कासितं मतिधनेन कुतोऽपि केना-पीत्थं विकल्पनमिहाकरवं स्वचित्ते ॥ २ ॥ जीर्णप्रतापविजयो मुनिरिद्धबुद्धि-दत्ते स्म शोधनविधौ निजपुस्तकं मे। सज्ज्ञानभानुरनिशं वृजिनान्धकार-हृत् प्रादुरस्तु हृदये विमलं तदस्य ॥ ३ ॥ यंत्रोभ्दवा याऽत्र भवेदशुद्धि-दृग्दोषजाता यदि वा ममापि । संशोधयिष्यन्ति बुधा विधाय कृपां मयि स्वच्छहदो मुदा ताम् ॥ ४ ॥ रसाब्धिजिनसंख्ये(२४४६)ऽब्दे वीराद्दर्भावतीपुरि । निवेदनमलेखीदं चतुरेणाल्पधीमता ॥ ५ ॥
Page #6
--------------------------------------------------------------------------
________________
કિંચિત્ પ્રાસ્તાવિક જૈન સાહિત્યમાં કરુણાદાનના દૃષ્ટાંતરૂપે સંપ્રતિ રાજાની કથા અનેક સ્થળે મળે છે. સંપ્રતિ વિષયક પ્રાચીન ઉલ્લેખો સૌ પ્રથમ નીશિથચૂર્ણિમાં પ્રાપ્ત થાય છે. ત્યાં આટલી વિગતો મળે છે : તે મૌર્ય સમ્રાટ અશોકના પુત્ર કુણાલનો પુત્ર હતો. અશોકના પૌત્રોમાં તે સૌથી સબળ હતો. તેણે ઉજ્જયિનીમાં રહી શાસન કરેલ અને સુરઢ (સોરઠ), અંધ (આંધ) તથા દ્રમિલ (દ્રાવિડ પ્રદેશ) જીતી મૌર્ય સામ્રાજ્યમાં ભેળવ્યા હતા. ઉત્તર-પશ્ચિમ ભારતમાંથી સાધુઓ અને યાત્રીઓ દક્ષિણમાં જઈ શકે તે માટે તેણે પર્વતો અને જંગલોમાંથી રસ્તા કરાવ્યા હતા. તેણે અનેક જિનમંદિરોની સ્થાપના કરી હતી. તે પ્રસિદ્ધ શ્વેતામ્બરાચાર્ય આર્ય સુહસ્તિસૂરિનો ભક્ત શ્રાવક હતો. પૂર્વજન્મમાં અત્યંત રંક હતો અને આ સુહસ્તિસૂરિ દ્વારા જ બોધ પામી પોતાના કરુણાદાનના ઉત્તમ કર્મથી પુન્યોપાર્જન કરી પછીના ભાવમાં રાજકુળમાં જન્મી ફરી આ. સુહસ્તિસૂરિના સંસર્ગમાં આવતાં જિનભક્ત બન્યો હતો.
આ કથા પલ્લવિત થઈ પ્રાકૃત અને સંસ્કૃતની વિવિધ કૃતિઓમાં પ્રાપ્ત થાય છે. સ્વતંત્રરૂપે લધુ પદ્યરચના રૂપે બે - એક સપ્રતિચરિત પ્રકાશિત થયાનો જૈન સાહિત્યના બૃહઈતિહાસ (ભા-૬)માં ઉલ્લેખ છે. તેમાં એક હીરાલાલ હંસરાજ દ્વારા જામનગરથી પ્રગટ થયેલ, જેના પ્રકાશન વર્ષની નોંધ નથી. જયારે બીજું તે આ પુસ્તિકામાં પ્રગટ કરવામાં આવે છે તે આત્માનંદ જય ગ્રંથમાળા (ડભોઈ)નું અમદાવાદથી સં. ૧૯૭૬માં પ્રકાશિત થયેલ. બન્ને એક જ છે કે જુદા તે જાણી શકાયું નથી.
1. પ્રસ્તુત કૃતિ સંસ્કૃત ભાષામાં ૪૬૧ પઘોમાં રચાયેલ છે. કૃતિના કર્તા અને સમયની કોઈ નોંધ મળતી નથી. મુનિશ્રી ચતુરવિજયજીએ આનું પ્રથમ સંપાદન કરેલ.
કૃતિના અર્ધા ઉપરાન્ત ભાગમાં સંપતિના દાદા ચન્દ્રગુપ્ત અને તેના મહામંત્રી ચાણક્યની કથા આપેલ છે. નંદ વંશનો નાશ કરનાર અને ચન્દ્રગુપ્તને રાજ્ય અપાવી મૌર્યવંશની સ્થાપના કરાવનાર મહામાત્ય ચાણક્ય ભારતીય ઈતિહાસમાં
Page #7
--------------------------------------------------------------------------
________________
તેની કૂટનીતિ માટે પ્રસિદ્ધ છે. આ ચાણક્યની કથા પણ ચૂર્ણિઓ અને ખાસ કરીને નીશિથચૂર્ણિમાં મળે છે.
ચાણક્ય-ચન્દ્રગુપ્તની કથા અને સંપ્રતિની કથા બન્ને અલગ અલગ રીતે પાછળના જૈન સાહિત્યમાં પલ્લવિત થયેલી જોવા મળે છે. આચાર્ય ભદ્રેશ્વરસૂરિની બૃહત્કાય કૃતિ “કહાવલિ' (લગભગ વિક્રમની ૧૧મી શતાબ્દિ) અને આ. હેમચન્દ્રસૂરિના “પરિશિષ્ટપર્વમાં પણ બન્ને કથાનકો અલગ સ્વરૂપે મળે છે. પૂર્ણિમાગચ્છના આ. માનતુંગસૂરિના “જયંતિચરિત'ની વૃત્તિ તેમના જ શિષ્ય મલયપ્રભસૂરિની ૬૬૦૦ શ્લોક પરિમાણની મળે છે. તેમાં પ૬ કથાનકો પ્રાકૃત ભાષામાં છે જેમાં એક સંપ્રતિ-ચરિત છે એવી નોંધ જૈન સાહિત્યના બૃહદ્ ઈતિહાસ ભાદમાં છે. તે જ રીતે ૧૨મી સદીમાં થઈ ગયેલ બૃહદ્ગચ્છના આ નેમિચન્દ્રસૂરિની “આખ્યાનકમણિકોશ'ની આમ્રદેવસૂરિરચિત વૃત્તિમાં સામાયિકફવર્ણના અધિકારમાં “સંપ્રતિરાજાકથાનક' નામે પ્રાકૃત ભાષામાં રચેલ લઘુકથા મળે છે.
આ ઉપરાંત અનેક ટીકા ગ્રંથો અને કથાકોશોમાં પ્રસ્તુત પ્રચલિત કથાનક હોવાનો સંભવ છે.
૧-૧૧-૯૯
૨. મ. શાહ
અમદાવાદ
Page #8
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
॥ श्रीमद्विजयानन्दसूरीश्वरक्रमकजेभ्यो नमः ॥
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
आसीदिहावसर्पिण्यां, चतुर्विंशो जिनेश्वरः । आत्तलोकातिगैश्वर्यः, श्रीवीरस्त्रिजगत्प्रभुः ॥ १॥ स्वामिना च सुधाख्यः, पञ्चमो गणभृद्वरः । भविष्यत्येष सन्तानी-त्यध्यास्यत निजे पदे ॥ २ ॥ शिष्यस्तस्याभवज्जम्बू-र्जाम्बूनदसमप्रभः । नादाल्लोभादिवान्यस्य, केवलश्रियमाप्य यः ॥ ३ ॥ अजायत विनेयस्तत्-प्रभवः प्रभवः प्रभुः । व्रतेऽप्यभून्मनोहारी, नृणां शैली हिदुस्त्यजा ॥ ४ ॥ अन्तेवासी स तस्यासीद्, भट्टः शय्यंभवः पुनः । आतीर्थस्थायि यश्चक्रे, दशवैकालिकश्रुतम् ॥ ५ ॥ यशोभद्रो यशोभद्रः, सूरिस्तस्मादजायत । पुनस्ततोऽपि संभूतः, सम्भूत इति विश्रुतः ॥ ६ ॥ भद्रवाहुर्भद्रबाहु-मुख्योऽभूद्रणभृत्ततः । निर्युक्तयः कृता येन, श्रुतसद्मप्रदीपिकाः ॥ ७ ॥ युगप्रधानतां भेजे, स्थूलभद्रस्ततः परम् । यस्तृणीकृतकन्दर्पः, पश्चिमः श्रुतकेवली ॥ ८॥ शिष्यौ बभूवतुस्तस्य, महागिरिसुहस्तिनौ । निरस्ताऽशेषतमसौ, सूर्याचन्द्रमसाविव ।। ९ ।। पृथक् पृथग्गणं दत्त्वा, गुरुणा स्थापितावपि । गाढस्नेही सतीर्थ्यत्त्वा-दभूतां सहचारिणौ ॥ १० ॥
Page #9
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
अन्यदा तौ विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलैकाश्रयालाभात्, तस्थतुः पृथगाश्रयौ ॥ ११ ॥ तदा वर्तते कालः, कालवदर्भक्ष्यभोजिनाम् । स्वसेऽपि दृश्यते यत्र, नाऽनलेशाऽपि तैः क्वचित् ॥ १२ ॥ साधुसंघाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ १३ ॥ अभ्युत्तस्थौ मुनी दृष्ट्वा, सहसा रभसाद्धनः । उदञ्चदुञ्चरोमांचः, प्राणंसीच्चातिभक्तितः ॥ १४ ॥ अथाऽऽदिशत् प्रियां सिंह-केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं, येनैतौ प्रतिलाभये ॥ १५ ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥ १६ ॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थे तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ॥ १७ ॥ अहो धन्याः कृतार्थाश्च, जगत्यत्रत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ।। १८ ॥ नूनं भिक्षुकताऽप्येषां, स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ १९ ॥ दैन्यं प्रकाशयन्तोऽपि, नारका इव मादृशाः । नान्नलेशमपि क्वापि, लभन्ते तु कुतो पिऽहि ॥ २० ॥ दैन्यातिरेकाद्यत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितैः ॥ २१ ॥. साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यमू किञ्चत्, कारुण्यात् करुणाधनौ ।। २२ ।।
Page #10
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका-वेव स्वामी गुरुः पुनः ॥ २३ ॥ सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांश्चाऽग्रे, याचते स्म गुरूनपि ॥ २४ ॥ गुरुराख्यायि साधूभ्या-मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव-स्ततस्तद्विषयं ददुः ॥ २५ ॥ महान् प्रवचनाधारो, नूनमेष भविष्यति। इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥ २६ ॥ व्रतं गृह्णासि चेद्भद्र ! ततो दास्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, कः कल्याणं न वाञ्छति ॥ २७ ॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ-माहारांस्तांस्तथाविधान् ॥ २८ ॥ वातसंभृतभस्त्रेव, ततश्चास्फुरितोदरः।। क्षणं शेते स्म मध्यान्हे, श्राद्धभुक्त इव द्विजः ।। २९ ॥ .. अतिस्निग्धेऽतिमात्रे च, तबाजीर्यत्यथाशने । शूलाऽश्व इवावेल्ल-ज्जातगूढविसूचिकः ॥ ३० ॥ ततो गुरुर्बभाषे तं, किं किञ्चिद्वत्स !भोक्ष्यसे? । सो वदत् किं प्रभो स्यात् क्षुत्, कल्पद्रोरपि सन्निधौ ॥ ३१ ॥ सांप्रतं किन्त्विदं याचे, स्यातां च त्वत्पदा गतिः । इति जल्पन्ननल्पात्तिः, प्रक्षीणायुर्व्यपद्यत ॥ ३२ ॥ सामायिकस्याव्यक्तस्य, प्रभावादुदपद्यत । रंकः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥ ३३ ॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लन्निःप्रतिमल्लश्री-र्गोल्लदेशः सुखैकभूः ॥ ३४ ॥ .
Page #11
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुतः । बहुधान्यमनोहारी, गोरसाढ्यः सुकाव्यवत् ॥ ३५ ॥ चणीति ब्राह्मणस्तत्र, सच्चरित्रः पवित्रधीः । अर्हद्धर्मविश्रुद्धात्मा, श्रद्धालुः श्रावकोत्तमः ॥ ३६ ॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुद्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ।। ३७ ॥ आगुस्तत्रान्यदाऽऽचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च, नृपास्थान्यामिव स्थिताः ॥ ३८ ॥ तदा च तत्र तत्कान्ताऽ सूत सूनुं चणेश्वरी । प्ररूढदाढं प्रागेव, प्राचीवाकै स्फुरत्प्रभम् ॥ ३९ ॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः । चक्रे चाणिक्य इत्याख्या-मुत्सवेन महीयसा ॥ ४० ॥ ततश्चणी तनूजं तं, वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ, पृच्छति स्म च तत्फलम् ॥ ४१ ॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यनेष महाराजो, भविष्यति महामतिः ॥ ४२ ॥ अथ सोऽन्तर्गृहं गत्त्वा, दध्यौ सूनुर्ममापि किम् । कृत्त्वाऽनर्थावहं राज्यं, गमिष्यत्यधमां गतिम् ॥ ४३ ॥ ततः प्रघृष्य तद्दाढा-श्चणी वालकरश्मिना (?) । गुरोरावेदयामास, स्वरूपं तद्यथाकृतम् ।। ४४ ॥ गुरुः प्रोवाच तं (तां) भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥ ४५ ॥ त्वया यद्यप्यघृष्यन्त, दाढाः सूनुस्तथाप्यसौ। बिम्बं किंचिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥ ४६॥
Page #12
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
अथ प्रवर्धमानः स, चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या-ल्लभ्यं घनमिवाददे ॥ ४७ ॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥ ४८ ॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीवितृष्ण एवाऽस्था-द्वर्षास्विव सदैव सः ॥ ४९ ।। अन्यदा दयिता तस्य, भ्रातुः परिणयोत्सवे । ययौ पितृगृहं तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥ ५० ॥ तासां महेम्यकान्ताना-मीयुषीणां महाश्रिया। मातापित्रादयः सर्वे, कुर्वत्यत्यन्तगौरवम् ॥ ५१ ।। काचिदभ्यंगयन्त्यंग-मुद्धर्तयति चापरा । काऽपि स्त्रयति स्नेहा-द्विलेपयति काऽपि च ॥ ५२ ॥ काऽपि संस्कुरुते पादौ, काऽप्यावधात्यलंकृतीः । चीणयन्ति च ताः काश्चि-दुपातैर्हस्तशाडकैः ॥ ५३ ॥ उपचारवचोभिश्च, सदाप्युल्लापवन्त्यपि । किं बहूक्तेन राज्ञीवत्, सर्वेऽप्पाराधयन्ति ताः ।। ५४ ॥ कार्यते कर्म दासीव, चाणिक्यस्य पुनः प्रिया। दरिद्रदयितेत्याप, सत्कृतिं न कुतोऽपि सा ॥ ५५ ॥ विवाहानन्तरं ताश्च, दिव्यचीनांशुकादिभिः । सत्कृत्य सपरीवाराः, प्रेष्यन्ते स्म सगौरवम् ॥ ५६ ।। दत्त्वा चाणिक्यपत्यै च, वाससी गोणिविभ्रमे । गच्छेर्वत्सेऽध्वगैः सार्ध-मित्युक्त्वा प्रेषिता गृहात् ।। ५७ ।। ततः सा।ऽचिन्तयद्धिग्धिग, दारिद्रयमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥ ५८ ॥
Page #13
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
पराभवमिवोझंती, द्दग्भ्यामश्रुमिषात्ततः। आजगाम गृहं पत्यु-नवा-म्बुदसमानना ॥ ५९ ॥ प्रियः पप्रच्छ किं खिने-वागताऽपि पितु-गुहात् । नोचे किश्चित् पुनर्बाढं, पृष्टाऽऽख्यत्तं पराभवम् ।। ६० ॥ . तच्छ्रुत्त्वा सोऽपि सङ्कान्त-तत्खेदवदचिन्तयत् । अर्थ एव हि गौरव्यो, न कौलिन्यं न वा गुणाः ॥ ६१ ॥ कलावानपि राजाऽपि, न भाति क्षीण-वैभवः । कुवेरोऽप्यकुलीनोऽपि, श्लाघ्यते धनवान् पुनः ।। ६२।। वित्ताढय एव सर्वत्र, प्रतिष्ठां लभते जने । काञ्चनश्रियमाबिभ्र-न्मेरुः क्षितिभृतां धुरि ।। ६३ ।। सत्यां भवन्त्यसन्तोऽपि, यान्त्यां सन्तोऽपि यान्ति च । यया सार्द्ध गुणाः सर्वे, सा श्रीरेकैव नन्दतु ।। ६४ ॥ अर्थश्चिन्तामणिरिव, चिन्तितार्थप्रसाधकः । तन्मयाऽप्यर्जनीयोऽसौ, तदेकमनसाऽधुना ॥ ६५ ॥ श्रुतश्च पाटलीपुत्रे, नन्दो विप्रसुवर्णदः । ततस्तं मार्गयामीति, ध्यात्त्वा तत्राशु सोऽगमत् ॥ ६६ ।। प्राविक्षच्च नृपावासं, दैवात् केनाप्यवारितः । आक्रम्य राजवद्राज-सिंहासनमु-पाविशत् ॥ ६७ ॥ इतः स्नातविलिप्ताङ्गः, सर्वालङ्कारभूषितः । नैमित्तिकभुजालम्बी, तत्रागानन्दभूपतिः ॥ ६८ ॥ पुस्चाणिक्यमालोक्य नृपमूचे निमित्तवित् । देवायमेवमासीनो, धत्ते त्वद्वंशपशुताम् ॥ ६९ ॥ अरोषयद्भिस्तदैव ! साम्ना च विनयेन च । असावुत्थापनीयोऽस्माज्ज्वालितेन किमग्निना ? ।। ७० ।।
Page #14
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
राजादेशात्ततो दास्या, दत्तं तस्यान्यदासनम् ।। उक्तश्चैवमिहास्व त्वं, द्विजाराजासनं त्यज ।। ७१ ।। सोऽथ दध्यौ न युक्तं त -द्यददत्तासनासनम् । अयुक्ततरमेतञ्च, यदुत्थानं ततोऽपि हि ॥ ७२ ।। विमृश्येति स तामूचे-ऽत्र मे स्थास्यति कुण्डिका। ततस्ताममुचत्तत्रा-न्यत्र न्यास्थत् त्रिदण्डकम् ॥ ७३ ॥ 'यज्ञोपवीतमन्यत्रे -त्यमुचद्यद्यदासनम् । रुरोध तत्तदन्यान्यै-रासनं स ग्रहात्तवत् ॥ ७४ ॥ धृष्टोऽयमिति राज्ञाऽथ, धृत्त्वा, पद्भ्यामकर्ण्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥ ७५ ॥ कोषभृत्य-महामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं, महाद्रुममिवानिलः ॥७६ ॥ शिखां बध्ध्वा च चाणिक्य -स्ततोऽवोचद्रुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥ ७७ ॥ रोचते त्वत्पितुर्यत्तत्, कुर्यास्त्वमिति वादिनः । दत्त्वार्द्धचन्द्रं तं नन्द-पत्तयो निरसारयन् ।। ७८ ॥ स निर्यश्च पुराद्दध्यौ, कषायविवशात्मक :। अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ॥ ७९ ॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे । नोपहासास्पदैः स्थातुं, शक्यं जीवद्भिरन्यथा ॥ ८० ॥ तत्कथं स्यादिति ध्यातु-र्गुरुवाक्यं मनस्यभूतू । भविष्यत्येष चाण्क्यिो , बिम्वान्तरितराज्यकृत् ॥ ८१ ॥ प्रतीच्यामप्युदेत्यंश्रु-विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्यार्षवचस्तु न ॥ ८२ ॥
Page #15
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
ततो बिम्बपरीक्षार्थ, परिवाड्वेषमादधत् । मयूरपोषकग्राम, नान्दं सोऽगात् परिभ्रमन ।। ८३ ।। प्रविवेश च भिक्षार्थ, स महत्तरमन्दिरम् । उद्धिग्नैस्तज्जनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ।। ८४ ॥ सोऽवदत् वेद्मि निःशेषं, तमथोचे महत्तरः । तहिं पूरय मत्पुत्र्या-श्चन्द्रमःपानदोहदम् ।। ८५ ।। यतः साऽस्ति तदप्राप्त्या,प्रस्थितेव यमालये। तदेनं पूरयन्नस्या-स्त्वं जीवातुर्भवाधुना ।। ८६ ॥ अवतीर्णोऽस्ति गर्भेऽस्या, राज्याह: कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा-च्चाणिक्यस्तमभाषत ॥ ८७ ।। दोहदं पूरयाम्यस्या-श्चैद् गर्भ मे प्रयच्छत । प्रपन्नं तेन तद्यस्मा-ज्जीवन्ती गर्भभृत् पुनः ।। ८८ ॥ स ततः साक्षिणः कृत्वा-ऽकारयत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥ ८९ ॥ अधः सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः-प्राप्तेन्दुप्रतिबिम्बभाक् ॥ ९० ॥ चाणिक्यस्तां सुतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्रै-रत्राऽऽकृष्यैष तत्पिब ।। ९१ ।। चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥ ९२ ।। गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम् । अर्द्धपीते स ऊचे ता-मियाँल्लोकार्थमस्त्विति ॥ ९३ ॥ तयोक्ते नेति सोऽवादीत्, पिब तर्हान्यमत्र तां । लोकार्थमानयिष्यामी-त्येवं श्रद्धामपूरयत् ।। ९४ ।।
Page #16
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
अथोत्पादयितुं द्रव्यं स धातुविवरेष्वगात् । धातुर्वादैश्च तत्प्राज्य-मुत्पाद्य पुनरागमत् ॥ ९५ ॥ ददर्श तत्र चाणिक्यः सर्वलक्षणधारिणम् । क्रीडन्तं दारकं राज- नीत्या संवसथाद्बहिः ॥ ९६ ॥ पुरिमालिख्य - निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भैः, सामन्तादिपदे कृतैः ॥ ९७ ॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्वरं । द्दष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थमूचिवान् ॥ ९८ ॥ ममापि दीयतां किञ्चिद्देवेत्याकर्ण्य सोऽभ्यधात् । विप्रैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ ९९ ॥ स स्माहैतान्यहं गृह्णन्, मार्ये गोस्वामिकैर्न किम् ? । स ऊचे किं न जानासि वीरभोज्या वसुन्धरा ॥ १०० ॥ औदार्यशौर्यविज्ञानै-स्तं बालं स विदन्नपि ।
कस्यायमिति पप्रच्छ, कञ्चिड्डिम्भं स ऊचिवान् ॥ १०१ ॥ महत्तरस्य दोहित्र - श्चन्द्रगुप्तोऽयमाख्यया ।
गर्भस्थोऽप्येष निःशेषैः, परिव्राजकसात्कृतः ॥ १०२ ॥ ततो हर्षेण चाणक्य-श्चन्द्रगुप्तमभाषत ।
आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् ॥ १०३ ॥
करोमि सत्यं राजानं, क्रीडाराज्येन किं तव ।
इत्युक्त्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ १०४ ॥
मेलयित्वा धनैस्तैश्च, चतुरङ्गं महद्वलम् ।
चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री बभूव च ॥ १०५ ॥ सर्वौघेण ततो गत्वा -: -ऽवेष्टयन्नन्दपत्तनम् । कारागार इवाऽरोत्सीत्, तत्र धान्यादिकं विशत् ॥ १०६ ॥
Page #17
--------------------------------------------------------------------------
________________
10
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
नन्दोऽपि सर्वसामग्रया, निःसृत्य नगराद्वहिः । मन्दरादिरिवाऽम्भोधि, गाहयामास तद्बलम् ॥ १०७ ॥ नन्दसैन्यबलेनाथ, चन्द्रचाणिक्ययोश्चमूः । अभ्रावलीव वात्याभि-र्गता सर्वा दिशोदिशम् ॥ १०८ ॥ ततश्च चन्द्रचाणिक्या-वारुह्याऽश्वं पलायितौ । निवृत्य मेषवद्भूयः, प्रहर्तुं तौ दिशैकया ॥ १०९ ।। मा स्मोपलक्षयेत् कोऽपी-त्युज्झित्वा तुरगौ पथि । अरोहतां सरःपाली, यातौ पादप्रचारतः ।। ११० ॥ सादिनं चैकमन्वाग-च्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं वासांसि, रजकं स्माह तीरगम् ॥ १११ ॥ अरेरे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दगृह्याः प्रगृह्यते, चन्द्रगुप्तस्य सादिभिः ॥ ११२ ॥ तच्छ्रत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्दगुप्तस्तु नीरान्तः, स्थगितः पद्मिनीवने ॥ ११३ ॥ स च सादी तदावादी-चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रचाणिक्यौ, यान्तावन्नेति साऽभ्यधात् ॥ ११४ ।। चाणिक्यो न मया दृष्ट-श्चन्द्रगुप्तस्तु तिष्ठति । निलीनः पद्मिनीषण्डे, तापाक्रान्तमरालवत् ।। ११५ ॥ दृष्ट्वा साद्यपि तं स्माह, क्षणं बिभृहि मे हयम् । तेनौच्यत बिभेम्यस्मा-त्तमाबध्य ततस्तरौ ॥ ११६ ॥ जले प्रवेष्टुं मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खङ्गेन, चाणिक्यस्तमसाधयत् ॥ ११७ ।। पुनर्वावपि तस्याश्व-मथारुह्य पलायितौ । गत्वा च कियन्ती भूमि, तमपि प्रागिवोज्झताम् ॥ ११८ ॥
Page #18
--------------------------------------------------------------------------
________________
27
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
देवाज्ञाया तदेतहि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सपर्याद्यै-र्भवावृद्धि करोम्यहम् ॥ ३११ ॥ ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृष्ट्वाऽर्चा न्यस्य चोपान्तं, धूपाङ्गारं गतः कुधीः ॥ ३१२ ॥ चाणिक्योप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥ ३१३ ॥ अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले । रे जीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥ ३१४ ॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चिन्नानुव्रजत्यपि ॥ ३१५ ॥ याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । तासामसौ न लक्षांशे-ऽप्याग्नेयी वेदनाऽस्ति ते ॥ ३१६ ॥ अन्वभूयंत तिर्यक्त्वे, यास्त्वयाऽनेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन् पीडां सहाऽग्निजाम् ॥ ३१७ ॥ मनुष्यः प्राप्तधर्मा च, यावज्जीवसि जीव हे । प्रस्थानस्थोऽत्र सुमना-स्तावदर्हद्वचः । स्मर ॥ ३१८ ॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एवहि । संसारेऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ॥ ३१९ ॥ ज्ञानश्रद्धानचारित्रा-ण्येवाहं श्रद्दधेऽधुना । यावज्जीवमितः सर्वे, व्युत्सष्टा भवदोहदाः ॥ ३२०॥ मया हिंसामृषावाद-स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातस्त्रिधाऽधुना ॥ ३२१ ॥ क्षमयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् ॥ ३२२ ॥
Page #19
--------------------------------------------------------------------------
________________
28
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वास्तान्, साक्षीकृत्यार्हदादिकान् ॥ ३२३ ॥ छद्मस्थो मूढचित्तो य-ज्जीवः स्मरति वा न वा । मत्यक्षात्तत्र सर्वत्रे-दानी मिथ्याऽस्तु दुष्कृतम् ॥ ३२४ ॥ एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयन् । सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः ॥ ३२५ ॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतनीकृतदुष्कर्मा, चाणिक्यः स्वर्गमीयिवान् ॥ ३२६ ।। सुबन्धुना नृपोऽन्येधु-र्व्यज्ञप्यत यथा मम । देव ! प्रसीद चाणिक्य-वेश्मदानानृपोऽप्यदात् ॥ ३२७ ।। गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवरकं, पिहितिद्वारमैक्षत ॥ ३२८ ॥ भविष्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मञ्जूषामथ दृष्टवान् ॥ ३२९ ॥ अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्वा तालकमुद्धाट्या-पश्यद्गन्धसमुद्गकम् ॥ ३३० ॥ हुँ जाने बीजकान्यत्र, भाविनीति विभावयन् । तमप्युद्धाट्य पश्यन्न-पश्यद्गन्धान् सपत्रकान ॥ ३३१ ॥ ततोऽतिसुरभीन् गन्धांस्तानाध्रायाऽथ पत्रकम् । वाचयन् दद्दशे तत्र, गन्याघ्राणोत्तरां क्रियाम् ।। ३३२ ।। एतानाघ्राय यो गन्धान् । जलं पिबति शीतलम् । भुंक्ते सर्वरसं भोज्य-मध:कृतसुधं सुधीः ॥ ३३३ ॥ कर्पूरकुसुमादीनां, गन्धं सुरभि जिघ्रति । निरूपयति रुपाणि, मनोहारीणि सस्पृहः ॥ ३३४ ॥
Page #20
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
29
वेणुवेणुरवोन्मिश्राः । श्रृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥ ३३५ ।। किं बहूक्तेन ? पञ्चानां, विषयाणां मनोरमम् । भजत्येकमपि क्षिप्रं, जायते स यमातिथिः ॥ ३३६ ॥ यस्तु मुण्डितमुण्डास्यः, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्ततेऽत्र स जीवति ॥ ३३७ ।। तदर्थप्रत्ययायाऽथ, नर: कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥ ३३८ ॥ सोऽथ दध्यौ घियं धीमांश्चाणिक्य एव हि । यन्मृतेनाऽपि तेनाऽह-मेवं जीवन्मृतः कृतः ॥ ३३९ ॥ मुनिवेषस्ततः स्थित्वा, नटवद्भाववर्जितः । अभव्यः पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥ ३४० ॥ राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वलम् । पृथिवीतिलकाख्यायां, महादेव्यां सुतोऽभवत् ॥ ३४१ ॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्रीः, कौतुकं सफलोदयः ॥ ३४२ ॥ सोऽथाधीयन्नविश्रान्तः सङ्कान्तनवयौवनः यौवराज्ययपदे राज्ञा, विहितो गुणवानिति ॥ ३४३ ॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यधूर्वहनक्षमः ॥ ३४४ ॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूत् । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥ ३४५ ।। मा मूद्विमातृकस्यास्य, विमातृभ्योऽत्र किञ्चन । । इत्यालोच्य च भूपालः, कुणालं पुत्रवत्सलः ॥ ३४६ ।।
Page #21
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
30
चतुरङ्गचमूयुक्तं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां प्रेषयत् पुरि ॥ ३४७ ॥ स्नेहातिशयतस्तत्र भूपतिः प्रतिवासरम् । स्वहस्तलिखिताँल्लेखान् प्राहिणोति स्म सादरम् ॥ ३४८ ॥ ज्ञात्वाऽन्येधुः कलायोग्यं कुमारं मन्त्रिणं प्रति । . अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखनृपः ॥ ३४९ ॥ अनुद्धानाक्षरं तं चा-ऽसंवत्यैव महीपतिः । तत्रैव स्थानके मुत्त्का, गतवान् देहचिन्तया ॥ ३५० ॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ कस्य कृते स्वयम् । लेखं लिखति राजेन्दु-रेवमत्यन्तमाद्दतः ॥ ३५१ ॥ ततस्तं वाचयित्वा सा, राज्यमिच्छुः स्वसूनवे । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत् ॥ ३५२ ॥ अभ्येयुषा नरेन्द्रेण, कथञ्चिद् व्यग्रचेतसा । संवाऽप्रतिवाच्यैव, लेख: प्रैषि विमुद्रय च ॥ ३५३ ॥ कुमारोऽपि समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ॥ ३५४ ॥ अथौच्यत कुमारेण, किं न वाचयसि द्रुतम् । तथाप्यजल्पतस्तस्मात्, स्वयमादाय वाचितः ॥ ३५५ ॥ अन्धीयतान्नः पुत्रोऽय-मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां, नाऽऽज्ञा केनापि खण्ड्यते ॥ ३५६ ॥ तल्लेखार्थ करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्ये देव । पुनदृष्ट्वा, स ऊचे किं विमशनैः ॥ ३५७ ॥ इत्युक्त्वा सहसैवासौ, सुतप्तायःशलाकया । भवितव्यतयैवोक्तः, स्वयमानञ्ज चक्षुषी ॥ ३५८ ॥
Page #22
--------------------------------------------------------------------------
________________
31
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
तच्चाकर्ण्य नृपः सद्यः, पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गमं दैववल्गितम् ।। ३५१ ॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्छलमानसैः ।। जायते चाऽन्यथा सैष, कार्यारम्भो विधेर्वशात् ॥ ३६० ॥ यदेव कुरुते दैवं, तदेव भवति ध्रुवम् ॥ इदं करिष्यते नेद-मिति चिन्ता वृथा नृणाम् ॥ ३६१ ॥ ततस्तस्य ददौ ग्रामं, राज्यमन्धो हि नाऽर्हति । दत्तमुज्जयिनीराज्यं, तद्विमातृसुतस्य तत् ॥ ३६२ ॥ पारंपर्येण च ज्ञात्वा, तद्विमातृविजृम्भितम् । कुणालो हृदये दायान्, दत्ते घृष्टः करोति किम् ॥ ३६३ ॥ अथ तत्र स्थितो ग्रामे, नि:कर्माऽल्पपरिच्छदः । गतिप्रसत्तया दैवस्य, दिवसानस्ति पूरयन् ॥ ३६४ ॥ अत्राऽन्तरे स रङ्कात्मा, तावद्धर्मप्रभावतः । गर्भे कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्रियः ॥ ३६५ ॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः , कुणालेन च पूरितः ॥ ३६६ ॥ तनयं जनयामास, पूर्णेष्वथ दिनेषु स्म । वर्द्धितः प्रियदास्या च, कुणालः पुत्रजन्मना ॥ ३६७ ॥ ततो विमातुर्विफॅलं, करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्य-मिति ध्यात्वा तदैव सः ॥ ३६८ ॥ कुणालो निर्ययौ ग्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥ ३६९ ॥ तस्यातिस्वरसौन्दर्यरश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, निःप्रचारः स सोऽभवत् ॥ ३७० ॥
Page #23
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
32
रञ्जितस्तद्गुणैः सर्वः, शशंसैकमुखो जनः । हाहाहूहू प्रभृतिका-नमस्तास्यैव शिष्यकान् ॥ ३७१ ॥ अभवत्तद्गुणोल्लापः, सभायां भूपतेरपि । आजूहवत् तं राजापि, कौतुकं कस्य तोऽद्भुते ।। ३७२ ॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाऽङ्गिनो विकलाङ्गकान् ॥ ३७३ ॥ तस्याऽतिशायिना तेन, तुष्टो गीतेन गोपतिः । तमूचे भो वृणु वरं, सोऽपि गीत्यैव गीतवान् ॥ ३७४ ॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य नप्तकः । अशोकश्रीतनूजोऽन्धः, काकिणीमेष याचते ॥ ३७५ ।। तच्छ्रुत्वाऽमुञ्चताश्रूणि, जवनीमपनीय ताम् । कुणालमङ्कमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥ ३७६ ॥ अथीचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥ ३७७ ।। राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूद्वामं, तत् कथं दीयतेऽस्य तत् ॥ ३७८ ॥ कुणालः स्माह मत्पुत्रस्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्रः स स्माह संप्रति ॥ ३७९ ॥ संप्रतीत्यभिधां तस्य, ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाऽऽनाय्य राज्यं निजं ददौ ॥ ३८० ॥ गतः क्रमात् परां प्रौढिं, भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान्, स्ववशीकुरुते स्म सः ॥३८१ ॥ संप्रतेः साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां, पुर्यामाजग्मुषोऽन्यदा ॥३८२ ॥
Page #24
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
जीवितस्वामिप्रतिमां, नन्तुं संयमयात्रया । आजग्मतुः क्रमादार्यौ महागिरिसुहस्तिनौ ॥ ३८३ ॥ तदानीं चान्तरङ्गारीन्, जिगीषोरिव निर्ययौ । स्वनन्निस्वानवद्बाद्यै-र्जीवितस्वामिनो रथः || ३८४ ॥ महागिरिसुहस्तिभ्यां, सङ्घेन च परिष्कृतः । पुर्यामस्खलितः स्वैरं, भ्राम्यन् प्राकाम्यसिद्धवत् ॥ ३८५ ॥ आजगाम नरेन्द्रस्य, सौधद्धारं महोत्सवैः । गवाक्षस्थः क्षितीशोऽपि, प्रेक्षताऽऽर्यसुहस्तिनं ॥ ३८६ ॥ दध्यौ विलोक्य तं चैवं, क्वाऽप्येनं द्दष्टपूर्व्यहम् । परं द्दष्टचरः कुत्रे - त्यामृशन् मूर्च्छयाऽपतत् ॥ ३८७ ॥ अथासन्नै परिजनैः संसिक्तश्चन्दनादिभिः । वीजितस्तालवृन्ताद्यैः स्मृतप्राग्जातिरुत्थितः ॥ ३८८ ॥ ततस्तदैव तं ज्ञात्वा स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताञ्जलिः ॥ ३८९ ॥ कि फलं भगवन्नर्ह - द्धर्म्मकल्पमहीरुहः । अवोचंस्ते फलं राजँ-ल्लाभः स्वर्गापवर्गयोः ॥ ३९० ॥ पुनरूचे स र्कि पूज्या, अव्यक्तव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप ! भूपतित्त्वादिकं फलम् ॥ ३९१ ॥ ततः प्रत्ययितो राजा - 5 वोचज्जानीत मां न वा । गुरुः श्रुतोपयोगेन, विज्ञाय नृपमभ्यधात् ॥ ३९२ ॥ सुष्टुपलक्षयामस्त्वां शिप्यो नः प्राग्भवे भवान् ॥ ततो हर्षप्रकर्षेण, वन्दित्त्वा सोऽवदद् गुरुन् ॥ ३९३ ॥ भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप ! ।
कारुण्यामृतजीमूत ! श्रुतरत्नमहोनिधे ! ॥ ३९४ ॥
33
Page #25
--------------------------------------------------------------------------
________________
34
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
तदानीं यदि मे स्वामिनाकरिष्यत् कृपां भवान् । ततोऽहं क्षुत्पिपासाऽऽा-ऽगमिष्यं कक्वपि दुर्गतौ ॥ ३९५ ॥ भवत्पादप्रसादेन, साम्रज्यमिदमद्भुतम् । प्राप्तस्वामिन् मयेदानी, यत्कर्त्तव्यं तदादिश ॥ ३९६ ॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच्चक्रे स्वयं वत्स, तत्तत्रैवादरं कुरु ॥ ३९७ ॥ ततः सम्यत्त्कमूलं स, श्राद्धधर्म प्रपेदिवान् । तरीतुं भवपाथोधि, सुश्वेतपटपोतवत् ॥ ३९८ ॥ अर्हति स्माऽर्हतामहीन्, पूजयाऽष्टप्रकारया । उपास्ते स्म गुरून् व्याख्या-रसपानैकलालसः ॥ ३९९ ॥ ददौ दानमनिर्विण्णः, सङ्घमार्चयदर्हताम् । प्रावर्त्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥ ४०० ॥ प्रतिग्रामं प्रतिपुरं, चैत्यैस्तत्कारितैस्तदा । बभूव भूमिः सर्वाङ्ग-मुक्तामयविभूषणा ॥ ४०१ ॥ अभूवन्नार्हताः सर्वे, तदा मिथ्यादृशोऽपि हि । यतो राजानुगो लोकः, स्फाति: पुण्यानुगा यथा ॥ ४०२ ।। सुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा । अपि प्रत्यन्तभूपालास्तेन सर्वेऽपि शब्दिताः ॥ ४०३ ॥ आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यत्कं, श्रमणोपासकाः कृताः ॥ ४०४ ॥ तथैव तस्थुषां तेषां, विहृत्य समयान्तरे । महागिरिः सुहस्ती च, पुनस्तत्रेयतुर्गुरू ॥ ४०५ ॥ चैत्ये यात्रा तदा चक्रे, उज्जयिन्या महाजनैः । अनन्तरं च प्रारेभे, रथयात्रामहोत्सवः ॥ ४०६ ।।
Page #26
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
35
तदा संप्रतिसाम्राज्ये, जिनधर्मे महौजसि । विनिर्ययौ रथः स्थाना-न्महिम्नाऽतिमहीयसा ॥ ४०७ ॥ पुष्पितारामवत् पुष्पैः फलौघैः कल्पवृक्षवत् । महादूष्यापणइव, परिघाननिकाशनैः ॥ ४०८ ॥ रणतूर्यायितैर्वाक्यै-र्मोहं व्यामोहयन्निव । गृहे गृहेऽष्टपूजाद्य, गृह्णानो माङ्गलिक्यवत् ॥ ४०९ ॥ सोल्लासरासकासक्त-स्त्रैणहल्लीसकः पुरः । परितः स्फारशृङ्गारै-र्गीयमानाङ्गनाजनैः ॥ ४१० ॥ विलीसिनीकरोत्क्षिप्तै,-विज्यमानश्च चामरैः । जंभारिकुञ्जर इव प्रेक्ष्यमाणः स्मितैमरैः ॥ ४११ ॥ इत्थं निरुपमोत्साहः, प्रीताखिलनरामरः । अगादुपनृपावास-द्वारं जैनो महारथः ॥ ४१२ ॥ तत्राऽऽगत्य स्वयं राजा, समं सामन्तपार्थिवैः । तं पूर्णविधिनाऽभ्यर्च्य, पुष्पाण्यग्रे प्रकीर्य च, ॥ ४१३ ॥ महाप्रभावनां कुर्व-स्तमनुव्रज्य संप्रतिः । तेषां राज्ञां विधिं सर्वं, दर्शयित्वाऽगमत् गृहान् ॥ ४१४ ॥ ततः स तान्नृपान् स्माह, न नः कार्ये धनेन वः । मन्यध्वे स्वामिनं चेन्मां, तद् भवन्तोऽत्र संप्रति ॥ ४१५ ॥ धर्म प्रवर्तयन्त्वेनं, लोकद्वयसुखावहम् । स्वस्वदेशेषु सर्वत्र, प्रीतिरेवं यतो मम ॥ ४१६ ॥ ततस्तेऽपि गतास्तत्र, जिनचैत्यान्यकारयन् । कुर्वते तत्र यात्राश्च, रथयात्रोत्सवाद्भुताः ॥ ४१७ ॥ सदैवोपासते साधूनमारिं घोषयन्ति च । राजानुवृत्या तत्रापि, लोकोऽभूद्धर्मतत्परः ॥ ४१८ ॥
Page #27
--------------------------------------------------------------------------
________________
36
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
ततश्च साधुसाध्वीनां विहर्तुं साधुचर्यया । प्रत्यन्ता अपि देशास्ते, मध्यदेश इवाभवन् ॥ ४१९ ॥ अन्यदा संप्रतिर्दध्यौ, साधवो विहरन्ति चेत् । अनार्येष्वपि देशेषु, स्यात्तल्लोकोऽपि धर्मवित् ॥ ४२० ॥ अथानार्यानपि नृपा-नादिदेश विशांपतिः । करं यूयं ददध्वं मे, यथा गृह्णति मद्भटाः ॥ ४२१ ॥ ततोऽनुशिष्य सुभटान्, प्रेषयन् मुनिवेषिणः । तेऽपि तत्र गतास्तेषां, साधुचर्यामथादिशन् ॥ ४२२ ॥ आगच्छतामभिगमो-ऽनुयानं गच्छतामथ । क्रियते नः प्रणामश्च, भून्यस्तकरजानुकै : ॥ ४२३ ॥
अन्नं पानं च शय्या च, वस्त्रपात्रादि वस्तु च । द्विचत्वारिंशता दोषै-रुज्झितं नः प्रदीयते ॥ ४२४ ॥ पठ्यन्ते च नमस्कार-मन्त्रशक्रस्तवादयः । अर्हन्तस्त्रिः प्रपूज्यते, जीवेषु क्रियते कृपा ॥ ४२५ ।। एवं च संप्रति वी, सुप्रसन्नोऽन्यथा न तु । तेऽपि तत्तद् व्यधुः सर्वे, ततस्तोषयितुं नृपम् ॥ ४२६ ॥ सुभटा अप्यथागत्य, तद्वृत्तं भूभुजेऽभ्यधुः । गुरुन् विज्ञपयामास, ततः संप्रतिरन्यदा ॥ ४२७ ॥ प्रभो ! नानार्यदेशे किं, विहरन्ति सुसाधवः? । गुरुः स्माह जनस्तत्रा-ज्ञानी नश्याद् व्रतं ततः ॥ ४२८ ॥ राजा प्रोचे प्रभो ! तर्हि, तदाचारं परीक्षितुम् । न्ययोजयध्वं प्रथम, चरानिव तपोधनान् ॥ ४२९ ॥ ततो गुरुर्मुनीन् कांश्चि-द् भूपतेरुपरोधतः । आदिदेश विहाराय, तेष्वैन्द्रद्रमिलादिषु । ४३० ॥
Page #28
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
37
तानप्यालोक्य, तेऽनार्या, विशिष्टानीव भूभुजः । वस्त्रानपानपात्राद्यै-स्तथैव प्रत्यलाभयन् ॥ ४३१ ।। तदीयश्रावकत्वेन, रञ्जितास्ते तपोधनाः । आगत्य स्वगुरोः सर्वे, कथयामासुरुन्मुदः ॥ ४३२ ॥ एवं सम्प्रतिराजस्य, बुद्धया सद्धर्मशुद्धयो । नित्यं साधुविहारेण, संजातास्तेऽपि भद्रकाः ॥ ४३३ ॥ स्मृत्वा प्राग्जन्मरङ्कत्त्वं, नरेन्द्रोऽन्येधुरात्मनः । पुर्याश्चतुर्पु द्वारेषु, सत्रागारानकारयत् ॥ ४३४ ॥ अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५ ॥ तत्रावशिष्टं चान्नादि, गृह्णते तन्नियोगिनः । उद्धृतग्राहिणो राज्ञा, पृष्टास्तेऽथ स्वमूचिरे ॥ ४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रासुकं चैषणीयं च, सर्वमन्निद्यमुद्धृतम् ॥ ४३७ ॥ भक्त्या परवशः क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृत्त्यै, वित्तं वो दास्यते मया ॥ ४३८ ।। ततो राजाज्ञया तेऽपि, साधुभ्यो ददुरुद्धृतम् । तेऽप्यनौद्देशिकीभूत-मिदानीमित्यगृह्णत ॥ ४३९ ॥ अथादिशत् कान्दविकान्, दौप्यिकान् गान्धिकांस्तथा । तैलाज्यदधिपक्कान्न-फलादिवणिजोऽपि च ॥ ४४० ॥ गृह्णते साधवो यद्य-त्तत्तद्येयं तदीप्सितम् ।। मत्तस्तन्मूल्यमादेयं, निःशेष क्रायिकादिना ॥ ४४१ ॥ राजपूज्यान् सुसाधूंस्ता-नाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥ ४४२ ॥
Page #29
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
38
जानन्नपि सदोषं तत्, सर्वमार्यसुहस्त्यपि । सेहे स्नेहेन शिष्यस्य, को न मोहेन मोहितः ॥ ४४३ ॥ इतश्च गच्छबाहुल्या-द्वभिन्नोपाश्रयस्थितः । गुरुर्महागिरिः सर्व, तज्ज्ञात्वोचे सुहस्तिनम् ॥ ४४४ ॥ अनेषणीयं राजान्नं, संपूर्णदशपूर्व्यपि । अविदन्निव गृहासि, किमाचार्य ! विदन्नपि ? ॥ ४४५ ॥ सुहस्त्युवाच भगवं-लोकः पूजितपूजकः । राजपूज्यान् विदन्नस्मान्, यच्छत्येवं तमादृतः ॥ ४४६ ॥ ततस्तं मायिनं मत्वा, रोषादार्यमहागिरिः । बभाषे नो विसंभोगः, परस्परमतः परम् ॥ ४४७ ।। सदृक्कल्पसदृक्छन्दैः, सम्भोगः साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥ ४४८ ॥ भीतः सुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराञ्जलिः ॥ ४४९ ॥ अपराधं क्षमस्वैक-मपराधवतः प्रभो !। अपुनःकरणेनाऽस्तु, मिथ्यादुष्कृतमत्र मे ॥ ४५० ॥ महागिरिस्ततः स्माह, दोषः कोऽत्र तवाथवा । इदं प्रोवाच भगवान्, वीरस्वामी स्वयं पुरा ॥ ४५१ ॥ इहास्माकीनसन्ताने, स्थूलभद्रादतः परम् । पतत्प्रकर्षा साधूनां, समाचारी भविष्यति ॥ ४५२ ॥ तस्माच्चानन्तरावावा-मेव तीर्थप्रवर्तकौ । अभूव तदिदं स्वामि-वचः सत्यापितं त्वया ॥ ४५३ ॥ इत्युदित्वा तमाचार्य, सद्भावक्षमितागसम् । पुनः साम्भोगिकं चक्रे, गुरुराय॑महागिरिः ॥ ४५४ ॥
Page #30
--------------------------------------------------------------------------
________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो - Sनेषणीयो विशेषतः || ४५५ ॥ निषिद्धो भरतस्यापि राजपिण्डः पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाक्षिकम् ॥ ४५६ ॥ दानपात्रं च तस्यापि श्रावक श्राविकाजनः । स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥ ४५७ ॥ अनुशास्ति गुरोस्तां स, निर्वृत्तेः पदवीमिव । आदाय परमानन्द-मग्नो धर्ममपालयत् ॥ ४५८ ॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाज्ञामिव सम्यक्त्व - मुवापावर्द्धयच्च सः ॥ ४५९ ॥ श्रीसंप्रतिः क्षितिपतिर्जिनराजधर्म्म,
सम्यक्त्वमूलममलं परिपाल्य सम्यक् ।
भुक्त्वा दिवः श्रियमथानुपमामनध्याँ,
मुक्तिं गमिष्यति शुभैकमतिः क्रमेण || ४६० ||
39
सम्यक्त्वरत्नं तदिदं विशुद्ध-मासाद्य युष्माभिरपीह भव्याः ।
स्वं पुत्रवन्निर्मलचित्तरङ्गैः, पाल्यं सदा निर्वृतिमाप्सुकामैः ॥ ४६१ ॥
Page #31
--------------------------------------------------------------------------
________________
40
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
॥ इति श्री सम्यत्तसंप्रतिनरेशकथा ॥ श्रेयोऽस्तु ॥ पीयूषोदरसोदरैर्जलभरैः पुष्णन्तु वार्दा धरां,
नित्यं नीतिपरायणा नृपतयो भूमीमिमां बिभ्रताम् । धात्री धान्यवती भवत्वनुदिनं लक्ष्मीर्जनानां गृहे,
श्रेयः श्रेणिनिकेतनं विजयतां श्री जैनधर्मः सदा ॥ १ ॥ सूर्याचन्द्रमसौ प्रदक्षिणयतो यावत् सुवर्णाचलं,
यावज्छ्रीजिनचैत्यमण्डनवती सर्वसहा राजते । तावत् संप्रतिभूपतेविजयतां सम्यकपूतात्मनः,
सम्यकप्रतिबोधकारि भविनामेतच्चरित्रं क्षितौ ॥ २ ॥
Page #32
--------------------------------------------------------------------------
________________
Pārśva International Series
बारहक्खर-कक्क of महाचंद्र मुनि
1997 Ed. H. C. Bhayani, Pritam Singhvi गाथामंजरी Ed. H. C. Bhayani
1998 अणुपेहा
1998 Ed. Pritam Singhvi अनेकान्तवाद Pritam Singhvi
1999 सदस्यवत्स-कथानक of Harsavardhanagani 1999 Ed. Pritam Singhvi आणंदा of आनंदतिलक
1999 Ed. H.C. Bhayani, Pritam Singhvi दोहापाहुड
1999 Ed. H.C. Bhayani, R. M. Shah. Pritam Singhvi तरंगवती
1999 Pritam Singhvi (Tr.) संप्रतिनृपचरित्र : संपादक : चतुरविजयमुनि.
1999 शासनसम्राट जीवन-परिचयका हिन्दी अनु. : प्रीतम सिंघवी 1999
To be Shortly Published
(शीध्र प्रकाश्यमान) उत्तराध्ययनादिगत जैन द्दष्टांतकथाएं : प्रीतम सिंघवी।
११.