________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
37
तानप्यालोक्य, तेऽनार्या, विशिष्टानीव भूभुजः । वस्त्रानपानपात्राद्यै-स्तथैव प्रत्यलाभयन् ॥ ४३१ ।। तदीयश्रावकत्वेन, रञ्जितास्ते तपोधनाः । आगत्य स्वगुरोः सर्वे, कथयामासुरुन्मुदः ॥ ४३२ ॥ एवं सम्प्रतिराजस्य, बुद्धया सद्धर्मशुद्धयो । नित्यं साधुविहारेण, संजातास्तेऽपि भद्रकाः ॥ ४३३ ॥ स्मृत्वा प्राग्जन्मरङ्कत्त्वं, नरेन्द्रोऽन्येधुरात्मनः । पुर्याश्चतुर्पु द्वारेषु, सत्रागारानकारयत् ॥ ४३४ ॥ अनात्मपरिभागेन, यथेच्छमनिवारितम् । दीयते भोजनं तत्र, सर्वेषामपि नित्यशः ॥ ४३५ ॥ तत्रावशिष्टं चान्नादि, गृह्णते तन्नियोगिनः । उद्धृतग्राहिणो राज्ञा, पृष्टास्तेऽथ स्वमूचिरे ॥ ४३६ ॥ नृपस्तानादिशद्देयं, युष्माभिर्यतिनामिदम् । प्रासुकं चैषणीयं च, सर्वमन्निद्यमुद्धृतम् ॥ ४३७ ॥ भक्त्या परवशः क्रीत-दोषं राजा विदन्नपि । इदं चोवाच तान् वृत्त्यै, वित्तं वो दास्यते मया ॥ ४३८ ।। ततो राजाज्ञया तेऽपि, साधुभ्यो ददुरुद्धृतम् । तेऽप्यनौद्देशिकीभूत-मिदानीमित्यगृह्णत ॥ ४३९ ॥ अथादिशत् कान्दविकान्, दौप्यिकान् गान्धिकांस्तथा । तैलाज्यदधिपक्कान्न-फलादिवणिजोऽपि च ॥ ४४० ॥ गृह्णते साधवो यद्य-त्तत्तद्येयं तदीप्सितम् ।। मत्तस्तन्मूल्यमादेयं, निःशेष क्रायिकादिना ॥ ४४१ ॥ राजपूज्यान् सुसाधूंस्ता-नाकार्याकार्य तेऽप्यथ । इष्टेष्टतमवस्तूनि, ददिरे भक्तिका इव ॥ ४४२ ॥