________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
38
जानन्नपि सदोषं तत्, सर्वमार्यसुहस्त्यपि । सेहे स्नेहेन शिष्यस्य, को न मोहेन मोहितः ॥ ४४३ ॥ इतश्च गच्छबाहुल्या-द्वभिन्नोपाश्रयस्थितः । गुरुर्महागिरिः सर्व, तज्ज्ञात्वोचे सुहस्तिनम् ॥ ४४४ ॥ अनेषणीयं राजान्नं, संपूर्णदशपूर्व्यपि । अविदन्निव गृहासि, किमाचार्य ! विदन्नपि ? ॥ ४४५ ॥ सुहस्त्युवाच भगवं-लोकः पूजितपूजकः । राजपूज्यान् विदन्नस्मान्, यच्छत्येवं तमादृतः ॥ ४४६ ॥ ततस्तं मायिनं मत्वा, रोषादार्यमहागिरिः । बभाषे नो विसंभोगः, परस्परमतः परम् ॥ ४४७ ।। सदृक्कल्पसदृक्छन्दैः, सम्भोगः साधुभिः सह । विपरीतस्वरूपत्वात्, त्वमस्माकं पुनर्बहिः ॥ ४४८ ॥ भीतः सुहस्त्यपि ततो, वन्दित्वाऽऽर्यमहागिरिम् । ऊचे विनयनम्राङ्गः, कम्पमानकराञ्जलिः ॥ ४४९ ॥ अपराधं क्षमस्वैक-मपराधवतः प्रभो !। अपुनःकरणेनाऽस्तु, मिथ्यादुष्कृतमत्र मे ॥ ४५० ॥ महागिरिस्ततः स्माह, दोषः कोऽत्र तवाथवा । इदं प्रोवाच भगवान्, वीरस्वामी स्वयं पुरा ॥ ४५१ ॥ इहास्माकीनसन्ताने, स्थूलभद्रादतः परम् । पतत्प्रकर्षा साधूनां, समाचारी भविष्यति ॥ ४५२ ॥ तस्माच्चानन्तरावावा-मेव तीर्थप्रवर्तकौ । अभूव तदिदं स्वामि-वचः सत्यापितं त्वया ॥ ४५३ ॥ इत्युदित्वा तमाचार्य, सद्भावक्षमितागसम् । पुनः साम्भोगिकं चक्रे, गुरुराय॑महागिरिः ॥ ४५४ ॥