SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥ उक्तश्च संप्रतिरपि, महाराज ! न कल्पते । सुसाधूनां राजपिण्डो - Sनेषणीयो विशेषतः || ४५५ ॥ निषिद्धो भरतस्यापि राजपिण्डः पुरा किल । श्रीयुगादिजिनेन्द्रेण, स्वयमिन्द्रादिसाक्षिकम् ॥ ४५६ ॥ दानपात्रं च तस्यापि श्रावक श्राविकाजनः । स्वामिनाख्यायि तद्वत्स, गच्छ त्वमपि तत्पथम् ॥ ४५७ ॥ अनुशास्ति गुरोस्तां स, निर्वृत्तेः पदवीमिव । आदाय परमानन्द-मग्नो धर्ममपालयत् ॥ ४५८ ॥ आर्यानार्येषु देशेषु, हृदयस्थानके नृणाम् । स्वामाज्ञामिव सम्यक्त्व - मुवापावर्द्धयच्च सः ॥ ४५९ ॥ श्रीसंप्रतिः क्षितिपतिर्जिनराजधर्म्म, सम्यक्त्वमूलममलं परिपाल्य सम्यक् । भुक्त्वा दिवः श्रियमथानुपमामनध्याँ, मुक्तिं गमिष्यति शुभैकमतिः क्रमेण || ४६० || 39 सम्यक्त्वरत्नं तदिदं विशुद्ध-मासाद्य युष्माभिरपीह भव्याः । स्वं पुत्रवन्निर्मलचित्तरङ्गैः, पाल्यं सदा निर्वृतिमाप्सुकामैः ॥ ४६१ ॥
SR No.002360
Book TitleSampratinrup Charitram
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherParshva International Shaikshanik aur Shodhnishth Pratishthan
Publication Year1999
Total Pages40
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy