________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
ततो बिम्बपरीक्षार्थ, परिवाड्वेषमादधत् । मयूरपोषकग्राम, नान्दं सोऽगात् परिभ्रमन ।। ८३ ।। प्रविवेश च भिक्षार्थ, स महत्तरमन्दिरम् । उद्धिग्नैस्तज्जनैः पृष्टो, भगवन् ! वेत्सि किञ्चन ।। ८४ ॥ सोऽवदत् वेद्मि निःशेषं, तमथोचे महत्तरः । तहिं पूरय मत्पुत्र्या-श्चन्द्रमःपानदोहदम् ।। ८५ ।। यतः साऽस्ति तदप्राप्त्या,प्रस्थितेव यमालये। तदेनं पूरयन्नस्या-स्त्वं जीवातुर्भवाधुना ।। ८६ ॥ अवतीर्णोऽस्ति गर्भेऽस्या, राज्याह: कोपि पूरुषः । ज्ञात्वेति दोहदात्तस्मा-च्चाणिक्यस्तमभाषत ॥ ८७ ।। दोहदं पूरयाम्यस्या-श्चैद् गर्भ मे प्रयच्छत । प्रपन्नं तेन तद्यस्मा-ज्जीवन्ती गर्भभृत् पुनः ।। ८८ ॥ स ततः साक्षिणः कृत्वा-ऽकारयत् पटमण्डपम् । कृत्वा तस्योपरि च्छिद्, ज्योत्स्नां मूर्ध्नि स्थिते विधौ ॥ ८९ ॥ अधः सुधाधिकद्रव्य-संस्कृतक्षीरपूरितम् । स्थालं निवेश्य रन्ध्रान्तः-प्राप्तेन्दुप्रतिबिम्बभाक् ॥ ९० ॥ चाणिक्यस्तां सुतामूचे, त्वत्कृते पुत्रि ! चन्द्रमाः । आनीतोऽस्ति मया मन्त्रै-रत्राऽऽकृष्यैष तत्पिब ।। ९१ ।। चन्द्रं मत्वा च तं हर्षात्, पपौ साऽथ यथा यथा । तथा तथोपरि च्छिद्रं, प्यधत्तोर्ध्वस्थितः पुमान् ॥ ९२ ।। गर्भो भाव्येष संपूर्णः, किं न वेति परीक्षितुम् । अर्द्धपीते स ऊचे ता-मियाँल्लोकार्थमस्त्विति ॥ ९३ ॥ तयोक्ते नेति सोऽवादीत्, पिब तर्हान्यमत्र तां । लोकार्थमानयिष्यामी-त्येवं श्रद्धामपूरयत् ।। ९४ ।।