________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
अथोत्पादयितुं द्रव्यं स धातुविवरेष्वगात् । धातुर्वादैश्च तत्प्राज्य-मुत्पाद्य पुनरागमत् ॥ ९५ ॥ ददर्श तत्र चाणिक्यः सर्वलक्षणधारिणम् । क्रीडन्तं दारकं राज- नीत्या संवसथाद्बहिः ॥ ९६ ॥ पुरिमालिख्य - निःशेषं, सदः सिंहासनासिनम् । प्राज्यैः परिवृतं डिम्भैः, सामन्तादिपदे कृतैः ॥ ९७ ॥ देशादीनां विलस (भ) नं, कुर्वाणं दर्पमुद्वरं । द्दष्ट्वा तुष्टः स चाणिक्य-स्तं परीक्षार्थमूचिवान् ॥ ९८ ॥ ममापि दीयतां किञ्चिद्देवेत्याकर्ण्य सोऽभ्यधात् । विप्रैतानि चरन्ति त्वं, गोकुलानि गृहाण भोः ॥ ९९ ॥ स स्माहैतान्यहं गृह्णन्, मार्ये गोस्वामिकैर्न किम् ? । स ऊचे किं न जानासि वीरभोज्या वसुन्धरा ॥ १०० ॥ औदार्यशौर्यविज्ञानै-स्तं बालं स विदन्नपि ।
कस्यायमिति पप्रच्छ, कञ्चिड्डिम्भं स ऊचिवान् ॥ १०१ ॥ महत्तरस्य दोहित्र - श्चन्द्रगुप्तोऽयमाख्यया ।
गर्भस्थोऽप्येष निःशेषैः, परिव्राजकसात्कृतः ॥ १०२ ॥ ततो हर्षेण चाणक्य-श्चन्द्रगुप्तमभाषत ।
आगच्छागच्छ भो वत्स !, यस्य त्वमसि सोऽस्म्यहम् ॥ १०३ ॥
करोमि सत्यं राजानं, क्रीडाराज्येन किं तव ।
इत्युक्त्वा तमुपादाय, चाणिक्यः स गतोऽन्यतः ॥ १०४ ॥
मेलयित्वा धनैस्तैश्च, चतुरङ्गं महद्वलम् ।
चन्द्रगुप्तं नृपं चक्रे, स्वयं मंत्री बभूव च ॥ १०५ ॥ सर्वौघेण ततो गत्वा -: -ऽवेष्टयन्नन्दपत्तनम् । कारागार इवाऽरोत्सीत्, तत्र धान्यादिकं विशत् ॥ १०६ ॥