________________
10
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
नन्दोऽपि सर्वसामग्रया, निःसृत्य नगराद्वहिः । मन्दरादिरिवाऽम्भोधि, गाहयामास तद्बलम् ॥ १०७ ॥ नन्दसैन्यबलेनाथ, चन्द्रचाणिक्ययोश्चमूः । अभ्रावलीव वात्याभि-र्गता सर्वा दिशोदिशम् ॥ १०८ ॥ ततश्च चन्द्रचाणिक्या-वारुह्याऽश्वं पलायितौ । निवृत्य मेषवद्भूयः, प्रहर्तुं तौ दिशैकया ॥ १०९ ।। मा स्मोपलक्षयेत् कोऽपी-त्युज्झित्वा तुरगौ पथि । अरोहतां सरःपाली, यातौ पादप्रचारतः ।। ११० ॥ सादिनं चैकमन्वाग-च्छन्तं दृष्ट्वा चणिप्रसूः । पक्षालयन्तं वासांसि, रजकं स्माह तीरगम् ॥ १११ ॥ अरेरे नश्य नश्य त्वं, भग्नो नन्दमहीपतिः । नन्दगृह्याः प्रगृह्यते, चन्द्रगुप्तस्य सादिभिः ॥ ११२ ॥ तच्छ्रत्वा स पलायिष्ट, चाणिक्यस्तत्पदे स्थितः । चन्दगुप्तस्तु नीरान्तः, स्थगितः पद्मिनीवने ॥ ११३ ॥ स च सादी तदावादी-चाणिक्यं रजकायितम् । दृष्टौ किं चन्द्रचाणिक्यौ, यान्तावन्नेति साऽभ्यधात् ॥ ११४ ।। चाणिक्यो न मया दृष्ट-श्चन्द्रगुप्तस्तु तिष्ठति । निलीनः पद्मिनीषण्डे, तापाक्रान्तमरालवत् ।। ११५ ॥ दृष्ट्वा साद्यपि तं स्माह, क्षणं बिभृहि मे हयम् । तेनौच्यत बिभेम्यस्मा-त्तमाबध्य ततस्तरौ ॥ ११६ ॥ जले प्रवेष्टुं मुक्तासि-र्यावन्मुञ्चति मोचके । तावत्तस्यैव खङ्गेन, चाणिक्यस्तमसाधयत् ॥ ११७ ।। पुनर्वावपि तस्याश्व-मथारुह्य पलायितौ । गत्वा च कियन्ती भूमि, तमपि प्रागिवोज्झताम् ॥ ११८ ॥