________________
27
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
देवाज्ञाया तदेतहि, साम्यनिर्मग्नचेतसः । चाणिक्यस्य सपर्याद्यै-र्भवावृद्धि करोम्यहम् ॥ ३११ ॥ ततो राजानुमत्या स, सन्ध्यायामेत्य दाम्भिकः । कृष्ट्वाऽर्चा न्यस्य चोपान्तं, धूपाङ्गारं गतः कुधीः ॥ ३१२ ॥ चाणिक्योप्यग्निना तेन, तप्यमानो महामनाः । भावनां भावयामास, दुष्कर्मग्रसनोरगीम् ॥ ३१३ ॥ अमेध्यमूत्रप्रस्वेद-मलदौर्गन्ध्यपिच्छले । रे जीवाऽतीवबीभत्से, वपुषि प्रेम मा कृथाः ॥ ३१४ ॥ द्वे एव पुण्यपापाख्ये, जीवेन सह गच्छतः । कृतघ्नं वपुरेतत्तु, किञ्चिन्नानुव्रजत्यपि ॥ ३१५ ॥ याः सोढा नरके पूर्व-मत्युग्रा वेदनास्त्वया । तासामसौ न लक्षांशे-ऽप्याग्नेयी वेदनाऽस्ति ते ॥ ३१६ ॥ अन्वभूयंत तिर्यक्त्वे, यास्त्वयाऽनेकशः पुरा । ताः साक्षादिव तिर्यक्षु, पश्यन् पीडां सहाऽग्निजाम् ॥ ३१७ ॥ मनुष्यः प्राप्तधर्मा च, यावज्जीवसि जीव हे । प्रस्थानस्थोऽत्र सुमना-स्तावदर्हद्वचः । स्मर ॥ ३१८ ॥ एक उत्पद्यते जीवो, म्रियतेऽप्येक एवहि । संसारेऽपि भ्रमत्येकः, प्राप्नोत्येकश्च निर्वृतिम् ॥ ३१९ ॥ ज्ञानश्रद्धानचारित्रा-ण्येवाहं श्रद्दधेऽधुना । यावज्जीवमितः सर्वे, व्युत्सष्टा भवदोहदाः ॥ ३२०॥ मया हिंसामृषावाद-स्तेयाब्रह्मपरिग्रहाः । चतुर्विधोऽपि चाहारः, प्रत्याख्यातस्त्रिधाऽधुना ॥ ३२१ ॥ क्षमयामि सर्वजीवान्, सर्वे क्षाम्यन्तु ते मयि । मैत्री मे सर्वजीवेषु, वैरं मम न केनचित् ॥ ३२२ ॥