________________
28
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
यान्मे जानन्ति सर्वज्ञा, अपराधाननेकधा । आलोचयामि सर्वास्तान्, साक्षीकृत्यार्हदादिकान् ॥ ३२३ ॥ छद्मस्थो मूढचित्तो य-ज्जीवः स्मरति वा न वा । मत्यक्षात्तत्र सर्वत्रे-दानी मिथ्याऽस्तु दुष्कृतम् ॥ ३२४ ॥ एवं स्वदुष्कृतं निन्दन् सुकृतं चानुमोदयन् । सिद्धिसोपानदेशीयं, चतुःशरणमाश्रितः ॥ ३२५ ॥ सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतनीकृतदुष्कर्मा, चाणिक्यः स्वर्गमीयिवान् ॥ ३२६ ।। सुबन्धुना नृपोऽन्येधु-र्व्यज्ञप्यत यथा मम । देव ! प्रसीद चाणिक्य-वेश्मदानानृपोऽप्यदात् ॥ ३२७ ।। गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवाऽपवरकं, पिहितिद्वारमैक्षत ॥ ३२८ ॥ भविष्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्घाटयामास, मञ्जूषामथ दृष्टवान् ॥ ३२९ ॥ अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्वा तालकमुद्धाट्या-पश्यद्गन्धसमुद्गकम् ॥ ३३० ॥ हुँ जाने बीजकान्यत्र, भाविनीति विभावयन् । तमप्युद्धाट्य पश्यन्न-पश्यद्गन्धान् सपत्रकान ॥ ३३१ ॥ ततोऽतिसुरभीन् गन्धांस्तानाध्रायाऽथ पत्रकम् । वाचयन् दद्दशे तत्र, गन्याघ्राणोत्तरां क्रियाम् ।। ३३२ ।। एतानाघ्राय यो गन्धान् । जलं पिबति शीतलम् । भुंक्ते सर्वरसं भोज्य-मध:कृतसुधं सुधीः ॥ ३३३ ॥ कर्पूरकुसुमादीनां, गन्धं सुरभि जिघ्रति । निरूपयति रुपाणि, मनोहारीणि सस्पृहः ॥ ३३४ ॥