________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
29
वेणुवेणुरवोन्मिश्राः । श्रृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च ॥ ३३५ ।। किं बहूक्तेन ? पञ्चानां, विषयाणां मनोरमम् । भजत्येकमपि क्षिप्रं, जायते स यमातिथिः ॥ ३३६ ॥ यस्तु मुण्डितमुण्डास्यः, प्रान्ताशी मलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्ततेऽत्र स जीवति ॥ ३३७ ।। तदर्थप्रत्ययायाऽथ, नर: कश्चित् सुबन्धुना । गन्धानाघ्राय सर्वाक्ष-सौख्यैरायोजितो मृतः ॥ ३३८ ॥ सोऽथ दध्यौ घियं धीमांश्चाणिक्य एव हि । यन्मृतेनाऽपि तेनाऽह-मेवं जीवन्मृतः कृतः ॥ ३३९ ॥ मुनिवेषस्ततः स्थित्वा, नटवद्भाववर्जितः । अभव्यः पातकी सोऽथ, भवेऽनन्ते भ्रमिष्यति ॥ ३४० ॥ राज्ञश्च बिन्दुसारस्य, कुर्वतो राज्यमुज्ज्वलम् । पृथिवीतिलकाख्यायां, महादेव्यां सुतोऽभवत् ॥ ३४१ ॥ सच्छायः सुमनोरम्यः, सदालिप्रियतां गतः । अशोकश्रीरशोकश्रीः, कौतुकं सफलोदयः ॥ ३४२ ॥ सोऽथाधीयन्नविश्रान्तः सङ्कान्तनवयौवनः यौवराज्ययपदे राज्ञा, विहितो गुणवानिति ॥ ३४३ ॥ क्रमादुपरते राज्ञि, सामन्तसचिवादिभिः । स एव स्थापितो राज्ये, राज्यधूर्वहनक्षमः ॥ ३४४ ॥ कुणाल इति तस्यापि, तनुभूः पुण्यभूरभूत् । जातमात्रोऽपि यः पित्रा, यौवराज्यपदे कृतः ॥ ३४५ ।। मा मूद्विमातृकस्यास्य, विमातृभ्योऽत्र किञ्चन । । इत्यालोच्य च भूपालः, कुणालं पुत्रवत्सलः ॥ ३४६ ।।