________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
30
चतुरङ्गचमूयुक्तं, प्रधानामात्यसङ्गतम् । कुमारं भक्तिदत्ताया-मवन्त्यां प्रेषयत् पुरि ॥ ३४७ ॥ स्नेहातिशयतस्तत्र भूपतिः प्रतिवासरम् । स्वहस्तलिखिताँल्लेखान् प्राहिणोति स्म सादरम् ॥ ३४८ ॥ ज्ञात्वाऽन्येधुः कलायोग्यं कुमारं मन्त्रिणं प्रति । . अधीयतां नः पुत्रोऽय-मिति लेखेऽलिखनृपः ॥ ३४९ ॥ अनुद्धानाक्षरं तं चा-ऽसंवत्यैव महीपतिः । तत्रैव स्थानके मुत्त्का, गतवान् देहचिन्तया ॥ ३५० ॥ राज्ञी काचिच्च तं दृष्ट्वा, दध्यौ कस्य कृते स्वयम् । लेखं लिखति राजेन्दु-रेवमत्यन्तमाद्दतः ॥ ३५१ ॥ ततस्तं वाचयित्वा सा, राज्यमिच्छुः स्वसूनवे । दत्वा बिन्दुमकारस्य तथैव तमतिष्ठिपत् ॥ ३५२ ॥ अभ्येयुषा नरेन्द्रेण, कथञ्चिद् व्यग्रचेतसा । संवाऽप्रतिवाच्यैव, लेख: प्रैषि विमुद्रय च ॥ ३५३ ॥ कुमारोऽपि समासाद्य, तं वाचयितुमार्पयत् । वाचयित्वा मनस्येव, स तु मौनेन तस्थिवान् ॥ ३५४ ॥ अथौच्यत कुमारेण, किं न वाचयसि द्रुतम् । तथाप्यजल्पतस्तस्मात्, स्वयमादाय वाचितः ॥ ३५५ ॥ अन्धीयतान्नः पुत्रोऽय-मित्यालोक्याऽऽह वाहकान् । मौर्यवंशभुवां राज्ञां, नाऽऽज्ञा केनापि खण्ड्यते ॥ ३५६ ॥ तल्लेखार्थ करिष्येऽहं, मन्त्रिणोऽथ तमभ्यधुः । कार्ये देव । पुनदृष्ट्वा, स ऊचे किं विमशनैः ॥ ३५७ ॥ इत्युक्त्वा सहसैवासौ, सुतप्तायःशलाकया । भवितव्यतयैवोक्तः, स्वयमानञ्ज चक्षुषी ॥ ३५८ ॥