________________
31
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
तच्चाकर्ण्य नृपः सद्यः, पतितो दुःखसागरे । चिन्तयामास धिगहो, दुर्गमं दैववल्गितम् ।। ३५१ ॥ अन्यथा चिन्त्यते हर्षो-च्छालमूर्छलमानसैः ।। जायते चाऽन्यथा सैष, कार्यारम्भो विधेर्वशात् ॥ ३६० ॥ यदेव कुरुते दैवं, तदेव भवति ध्रुवम् ॥ इदं करिष्यते नेद-मिति चिन्ता वृथा नृणाम् ॥ ३६१ ॥ ततस्तस्य ददौ ग्रामं, राज्यमन्धो हि नाऽर्हति । दत्तमुज्जयिनीराज्यं, तद्विमातृसुतस्य तत् ॥ ३६२ ॥ पारंपर्येण च ज्ञात्वा, तद्विमातृविजृम्भितम् । कुणालो हृदये दायान्, दत्ते घृष्टः करोति किम् ॥ ३६३ ॥ अथ तत्र स्थितो ग्रामे, नि:कर्माऽल्पपरिच्छदः । गतिप्रसत्तया दैवस्य, दिवसानस्ति पूरयन् ॥ ३६४ ॥ अत्राऽन्तरे स रङ्कात्मा, तावद्धर्मप्रभावतः । गर्भे कुणालभार्यायाः, समुत्पेदे स्फुरच्छ्रियः ॥ ३६५ ॥ मासद्वये व्यतिक्रान्ते, देवगुर्वादिपूजने । अभवद्दोहदस्तस्याः , कुणालेन च पूरितः ॥ ३६६ ॥ तनयं जनयामास, पूर्णेष्वथ दिनेषु स्म । वर्द्धितः प्रियदास्या च, कुणालः पुत्रजन्मना ॥ ३६७ ॥ ततो विमातुर्विफॅलं, करोम्येष मनोरथम् । गृह्णामि तन्निजं राज्य-मिति ध्यात्वा तदैव सः ॥ ३६८ ॥ कुणालो निर्ययौ ग्रामात्, पाटलीपुत्रमासदत् ॥ अगायच्च तदा गोष्ठयां, राजमार्गसमीपगः ॥ ३६९ ॥ तस्यातिस्वरसौन्दर्यरश्मिनेव नियन्त्रितः । तत्र यो यः संचचार, निःप्रचारः स सोऽभवत् ॥ ३७० ॥