________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
32
रञ्जितस्तद्गुणैः सर्वः, शशंसैकमुखो जनः । हाहाहूहू प्रभृतिका-नमस्तास्यैव शिष्यकान् ॥ ३७१ ॥ अभवत्तद्गुणोल्लापः, सभायां भूपतेरपि । आजूहवत् तं राजापि, कौतुकं कस्य तोऽद्भुते ।। ३७२ ॥ सोऽप्यथागत्य राजाग्रे, जवन्यन्तरितो जगौ । राजानो येन पश्यन्ति, नाऽङ्गिनो विकलाङ्गकान् ॥ ३७३ ॥ तस्याऽतिशायिना तेन, तुष्टो गीतेन गोपतिः । तमूचे भो वृणु वरं, सोऽपि गीत्यैव गीतवान् ॥ ३७४ ॥ प्रपौत्रश्चन्द्रगुप्तस्य, बिन्दुसारस्य नप्तकः । अशोकश्रीतनूजोऽन्धः, काकिणीमेष याचते ॥ ३७५ ।। तच्छ्रुत्वाऽमुञ्चताश्रूणि, जवनीमपनीय ताम् । कुणालमङ्कमारोप्य प्रोचेऽल्पं वत्स ! याचितम् ॥ ३७६ ॥ अथीचे मन्त्रिणा तत्र, नास्त्यल्पं देव ! याचितम् । राज्यं हि राजपुत्राणां, काकिणीत्यभिधीयते ॥ ३७७ ।। राजोचे राज्यमस्यैव, संकल्पितमभून्मया । परं दैवमभूद्वामं, तत् कथं दीयतेऽस्य तत् ॥ ३७८ ॥ कुणालः स्माह मत्पुत्रस्तात ! राज्यं करिष्यति । राजाऽवोचत् कदाऽभूत्ते, पुत्रः स स्माह संप्रति ॥ ३७९ ॥ संप्रतीत्यभिधां तस्य, ततश्चक्रे तदैव राट् । दशाहोऽनन्तरं तं चाऽऽनाय्य राज्यं निजं ददौ ॥ ३८० ॥ गतः क्रमात् परां प्रौढिं, भरतार्द्धमसाधयत् । अप्यनार्यान् जनपदान्, स्ववशीकुरुते स्म सः ॥३८१ ॥ संप्रतेः साधिताशेषक्षोणीचक्रस्य चक्रिवत् । उज्जयिन्यामुज्जयिन्यां, पुर्यामाजग्मुषोऽन्यदा ॥३८२ ॥