________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
जीवितस्वामिप्रतिमां, नन्तुं संयमयात्रया । आजग्मतुः क्रमादार्यौ महागिरिसुहस्तिनौ ॥ ३८३ ॥ तदानीं चान्तरङ्गारीन्, जिगीषोरिव निर्ययौ । स्वनन्निस्वानवद्बाद्यै-र्जीवितस्वामिनो रथः || ३८४ ॥ महागिरिसुहस्तिभ्यां, सङ्घेन च परिष्कृतः । पुर्यामस्खलितः स्वैरं, भ्राम्यन् प्राकाम्यसिद्धवत् ॥ ३८५ ॥ आजगाम नरेन्द्रस्य, सौधद्धारं महोत्सवैः । गवाक्षस्थः क्षितीशोऽपि, प्रेक्षताऽऽर्यसुहस्तिनं ॥ ३८६ ॥ दध्यौ विलोक्य तं चैवं, क्वाऽप्येनं द्दष्टपूर्व्यहम् । परं द्दष्टचरः कुत्रे - त्यामृशन् मूर्च्छयाऽपतत् ॥ ३८७ ॥ अथासन्नै परिजनैः संसिक्तश्चन्दनादिभिः । वीजितस्तालवृन्ताद्यैः स्मृतप्राग्जातिरुत्थितः ॥ ३८८ ॥ ततस्तदैव तं ज्ञात्वा स प्राग्भवगुरुं सुधीः । गत्वा तत्रानमद्भक्त्या, पप्रच्छ च कृताञ्जलिः ॥ ३८९ ॥ कि फलं भगवन्नर्ह - द्धर्म्मकल्पमहीरुहः । अवोचंस्ते फलं राजँ-ल्लाभः स्वर्गापवर्गयोः ॥ ३९० ॥ पुनरूचे स र्कि पूज्या, अव्यक्तव्रतजं फलम् । गुरवोऽप्यभ्यधुर्भूप ! भूपतित्त्वादिकं फलम् ॥ ३९१ ॥ ततः प्रत्ययितो राजा - 5 वोचज्जानीत मां न वा । गुरुः श्रुतोपयोगेन, विज्ञाय नृपमभ्यधात् ॥ ३९२ ॥ सुष्टुपलक्षयामस्त्वां शिप्यो नः प्राग्भवे भवान् ॥ ततो हर्षप्रकर्षेण, वन्दित्त्वा सोऽवदद् गुरुन् ॥ ३९३ ॥ भवभ्रमपरिश्रान्त-जन्तुविश्रामपादप ! ।
कारुण्यामृतजीमूत ! श्रुतरत्नमहोनिधे ! ॥ ३९४ ॥
33