________________
34
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
तदानीं यदि मे स्वामिनाकरिष्यत् कृपां भवान् । ततोऽहं क्षुत्पिपासाऽऽा-ऽगमिष्यं कक्वपि दुर्गतौ ॥ ३९५ ॥ भवत्पादप्रसादेन, साम्रज्यमिदमद्भुतम् । प्राप्तस्वामिन् मयेदानी, यत्कर्त्तव्यं तदादिश ॥ ३९६ ॥ ततो गुरुभिराचक्षे, जैनधर्मफलं त्वया । साक्षाच्चक्रे स्वयं वत्स, तत्तत्रैवादरं कुरु ॥ ३९७ ॥ ततः सम्यत्त्कमूलं स, श्राद्धधर्म प्रपेदिवान् । तरीतुं भवपाथोधि, सुश्वेतपटपोतवत् ॥ ३९८ ॥ अर्हति स्माऽर्हतामहीन्, पूजयाऽष्टप्रकारया । उपास्ते स्म गुरून् व्याख्या-रसपानैकलालसः ॥ ३९९ ॥ ददौ दानमनिर्विण्णः, सङ्घमार्चयदर्हताम् । प्रावर्त्तयच्च सर्वत्र, प्रतिबोध्य कृपां नृपः ॥ ४०० ॥ प्रतिग्रामं प्रतिपुरं, चैत्यैस्तत्कारितैस्तदा । बभूव भूमिः सर्वाङ्ग-मुक्तामयविभूषणा ॥ ४०१ ॥ अभूवन्नार्हताः सर्वे, तदा मिथ्यादृशोऽपि हि । यतो राजानुगो लोकः, स्फाति: पुण्यानुगा यथा ॥ ४०२ ।। सुसाधुश्रावकेणाऽथ, प्रतिबोधयितुं तदा । अपि प्रत्यन्तभूपालास्तेन सर्वेऽपि शब्दिताः ॥ ४०३ ॥ आयाताश्च स्वयं राज्ञा, धर्ममाख्याय विस्तरात् । तेऽपि प्रग्राह्य सम्यत्कं, श्रमणोपासकाः कृताः ॥ ४०४ ॥ तथैव तस्थुषां तेषां, विहृत्य समयान्तरे । महागिरिः सुहस्ती च, पुनस्तत्रेयतुर्गुरू ॥ ४०५ ॥ चैत्ये यात्रा तदा चक्रे, उज्जयिन्या महाजनैः । अनन्तरं च प्रारेभे, रथयात्रामहोत्सवः ॥ ४०६ ।।