________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
राजादेशात्ततो दास्या, दत्तं तस्यान्यदासनम् ।। उक्तश्चैवमिहास्व त्वं, द्विजाराजासनं त्यज ।। ७१ ।। सोऽथ दध्यौ न युक्तं त -द्यददत्तासनासनम् । अयुक्ततरमेतञ्च, यदुत्थानं ततोऽपि हि ॥ ७२ ।। विमृश्येति स तामूचे-ऽत्र मे स्थास्यति कुण्डिका। ततस्ताममुचत्तत्रा-न्यत्र न्यास्थत् त्रिदण्डकम् ॥ ७३ ॥ 'यज्ञोपवीतमन्यत्रे -त्यमुचद्यद्यदासनम् । रुरोध तत्तदन्यान्यै-रासनं स ग्रहात्तवत् ॥ ७४ ॥ धृष्टोऽयमिति राज्ञाऽथ, धृत्त्वा, पद्भ्यामकर्ण्यत । सोऽपि भूमेरथोत्थाय, प्रत्याज्ञासीदिदं यथा ॥ ७५ ॥ कोषभृत्य-महामूलं, पुत्रमित्रादिशाखकम् । नन्दमुत्पाटयिष्येऽहं, महाद्रुममिवानिलः ॥७६ ॥ शिखां बध्ध्वा च चाणिक्य -स्ततोऽवोचद्रुषारुणः । संपूर्णायां प्रतिज्ञायां, शिखेयं छोटयिष्यते ॥ ७७ ॥ रोचते त्वत्पितुर्यत्तत्, कुर्यास्त्वमिति वादिनः । दत्त्वार्द्धचन्द्रं तं नन्द-पत्तयो निरसारयन् ।। ७८ ॥ स निर्यश्च पुराद्दध्यौ, कषायविवशात्मक :। अज्ञानान्धस्तदाऽकार्ष, प्रतिज्ञां महतीं हहा ॥ ७९ ॥ तदियं पूरणीयैव, मर्त्तव्यमथवाऽऽहवे । नोपहासास्पदैः स्थातुं, शक्यं जीवद्भिरन्यथा ॥ ८० ॥ तत्कथं स्यादिति ध्यातु-र्गुरुवाक्यं मनस्यभूतू । भविष्यत्येष चाण्क्यिो , बिम्वान्तरितराज्यकृत् ॥ ८१ ॥ प्रतीच्यामप्युदेत्यंश्रु-विपर्यस्यति भूरपि । मेरोरपि चलेच्चूला, चलत्यार्षवचस्तु न ॥ ८२ ॥