________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
अथ प्रवर्धमानः स, चाणिक्यस्त्यक्तशैशवः । विद्याः सर्वास्तदाचार्या-ल्लभ्यं घनमिवाददे ॥ ४७ ॥ अथानुरूपां पुत्रस्य, मृगाङ्कस्येव रोहिणीम् । विलोक्य ब्राह्मणीमेकां, चणी तं पर्यणाययत् ॥ ४८ ॥ ततः पितरि कालेन, क्रमात् कवलितेऽपि हि । सुधीवितृष्ण एवाऽस्था-द्वर्षास्विव सदैव सः ॥ ४९ ।। अन्यदा दयिता तस्य, भ्रातुः परिणयोत्सवे । ययौ पितृगृहं तस्या, जाम्योऽन्या अपि चाऽऽगमन् ॥ ५० ॥ तासां महेम्यकान्ताना-मीयुषीणां महाश्रिया। मातापित्रादयः सर्वे, कुर्वत्यत्यन्तगौरवम् ॥ ५१ ।। काचिदभ्यंगयन्त्यंग-मुद्धर्तयति चापरा । काऽपि स्त्रयति स्नेहा-द्विलेपयति काऽपि च ॥ ५२ ॥ काऽपि संस्कुरुते पादौ, काऽप्यावधात्यलंकृतीः । चीणयन्ति च ताः काश्चि-दुपातैर्हस्तशाडकैः ॥ ५३ ॥ उपचारवचोभिश्च, सदाप्युल्लापवन्त्यपि । किं बहूक्तेन राज्ञीवत्, सर्वेऽप्पाराधयन्ति ताः ।। ५४ ॥ कार्यते कर्म दासीव, चाणिक्यस्य पुनः प्रिया। दरिद्रदयितेत्याप, सत्कृतिं न कुतोऽपि सा ॥ ५५ ॥ विवाहानन्तरं ताश्च, दिव्यचीनांशुकादिभिः । सत्कृत्य सपरीवाराः, प्रेष्यन्ते स्म सगौरवम् ॥ ५६ ।। दत्त्वा चाणिक्यपत्यै च, वाससी गोणिविभ्रमे । गच्छेर्वत्सेऽध्वगैः सार्ध-मित्युक्त्वा प्रेषिता गृहात् ।। ५७ ।। ततः सा।ऽचिन्तयद्धिग्धिग, दारिद्रयमपमानदम् । यत्र मातापितृभ्योऽपि, भवत्येवं पराभवः ॥ ५८ ॥