________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
ग्रामोऽस्ति चणकग्राम-नामकस्तत्र विश्रुतः । बहुधान्यमनोहारी, गोरसाढ्यः सुकाव्यवत् ॥ ३५ ॥ चणीति ब्राह्मणस्तत्र, सच्चरित्रः पवित्रधीः । अर्हद्धर्मविश्रुद्धात्मा, श्रद्धालुः श्रावकोत्तमः ॥ ३६ ॥ प्राप्तोत्कर्षाणि हृद्ग्रामे, विद्यास्थानानि नित्यशः । चतुद्दशापि निर्बाधं, यस्यावात्सुः कुटुम्बवत् ।। ३७ ॥ आगुस्तत्रान्यदाऽऽचार्याः, श्रुतसागरसूरयः । तद्गृहोपरिभूम्यां च, नृपास्थान्यामिव स्थिताः ॥ ३८ ॥ तदा च तत्र तत्कान्ताऽ सूत सूनुं चणेश्वरी । प्ररूढदाढं प्रागेव, प्राचीवाकै स्फुरत्प्रभम् ॥ ३९ ॥ कृत्वा जन्मोत्सवं तस्य, द्वादशे दिवसे ततः । चक्रे चाणिक्य इत्याख्या-मुत्सवेन महीयसा ॥ ४० ॥ ततश्चणी तनूजं तं, वन्दयित्वा गुरोः क्रमान् । दाढावृत्तान्तमाचख्यौ, पृच्छति स्म च तत्फलम् ॥ ४१ ॥ गुरवोऽतीन्द्रियज्ञान-समक्षसमयत्रयाः । आख्यनेष महाराजो, भविष्यति महामतिः ॥ ४२ ॥ अथ सोऽन्तर्गृहं गत्त्वा, दध्यौ सूनुर्ममापि किम् । कृत्त्वाऽनर्थावहं राज्यं, गमिष्यत्यधमां गतिम् ॥ ४३ ॥ ततः प्रघृष्य तद्दाढा-श्चणी वालकरश्मिना (?) । गुरोरावेदयामास, स्वरूपं तद्यथाकृतम् ।। ४४ ॥ गुरुः प्रोवाच तं (तां) भद्र, किमिदं विदधे त्वया । यद्यथोपार्जितं येन, भोक्तव्यं तेन तत्तथा ॥ ४५ ॥ त्वया यद्यप्यघृष्यन्त, दाढाः सूनुस्तथाप्यसौ। बिम्बं किंचिद्विधायैव, राज्यं प्राज्यं करिष्यति ॥ ४६॥