________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ।।
विमृश्यैवं ययाचेऽसौ, साधू तावप्यवोचताम् । भद्राऽऽवामस्य वाहीका-वेव स्वामी गुरुः पुनः ॥ २३ ॥ सोऽन्वगात् तौ ततोऽन्नार्थी, भक्तितोऽनुव्रजन्निव । दृष्ट्वाश्रयस्थितांश्चाऽग्रे, याचते स्म गुरूनपि ॥ २४ ॥ गुरुराख्यायि साधूभ्या-मावामप्यमुनाऽर्थितौ । श्रुतोपयोगं गुरव-स्ततस्तद्विषयं ददुः ॥ २५ ॥ महान् प्रवचनाधारो, नूनमेष भविष्यति। इति तेन परिज्ञाय, गुरवस्तं बभाषिरे ॥ २६ ॥ व्रतं गृह्णासि चेद्भद्र ! ततो दास्तवेप्सितम् । स उवाच प्रभोऽस्त्वेवं, कः कल्याणं न वाञ्छति ॥ २७ ॥ ततस्तदैव दीक्षित्वा, भोजनायोपवेशितः । भुक्तवानाकटीकण्ठ-माहारांस्तांस्तथाविधान् ॥ २८ ॥ वातसंभृतभस्त्रेव, ततश्चास्फुरितोदरः।। क्षणं शेते स्म मध्यान्हे, श्राद्धभुक्त इव द्विजः ।। २९ ॥ .. अतिस्निग्धेऽतिमात्रे च, तबाजीर्यत्यथाशने । शूलाऽश्व इवावेल्ल-ज्जातगूढविसूचिकः ॥ ३० ॥ ततो गुरुर्बभाषे तं, किं किञ्चिद्वत्स !भोक्ष्यसे? । सो वदत् किं प्रभो स्यात् क्षुत्, कल्पद्रोरपि सन्निधौ ॥ ३१ ॥ सांप्रतं किन्त्विदं याचे, स्यातां च त्वत्पदा गतिः । इति जल्पन्ननल्पात्तिः, प्रक्षीणायुर्व्यपद्यत ॥ ३२ ॥ सामायिकस्याव्यक्तस्य, प्रभावादुदपद्यत । रंकः सैष सुतो यस्य, सोऽन्वयस्तस्य कथ्यते ॥ ३३ ॥ इहाऽस्ति प्रथमद्वीपे, भरतक्षेत्रभूषणम् । फुल्लन्निःप्रतिमल्लश्री-र्गोल्लदेशः सुखैकभूः ॥ ३४ ॥ .