________________
॥ श्रीमत्संप्रतिनृपतिचरित्रम् ॥
अन्यदा तौ विहारेण, कौशाम्बी जग्मतुः पुरीम् । पुष्कलैकाश्रयालाभात्, तस्थतुः पृथगाश्रयौ ॥ ११ ॥ तदा वर्तते कालः, कालवदर्भक्ष्यभोजिनाम् । स्वसेऽपि दृश्यते यत्र, नाऽनलेशाऽपि तैः क्वचित् ॥ १२ ॥ साधुसंघाटकस्तत्र, भिक्षाहेतोः सुहस्तिनः । प्रविवेश धनाढ्यस्य, धनसार्थपतेर्गृहम् ॥ १३ ॥ अभ्युत्तस्थौ मुनी दृष्ट्वा, सहसा रभसाद्धनः । उदञ्चदुञ्चरोमांचः, प्राणंसीच्चातिभक्तितः ॥ १४ ॥ अथाऽऽदिशत् प्रियां सिंह-केसरादिकमद्भुतम् । आनयाऽऽहारसंभारं, येनैतौ प्रतिलाभये ॥ १५ ॥ तयाऽपि सर्वमानिन्ये, लब्धकल्पद्रुमादिव । अनिच्छद्भ्यामपि बलात्, तत्ताभ्यां सर्वमप्यदात् ॥ १६ ॥ रङ्कः कश्चित्तदा तत्र, भिक्षार्थे तद्गृहाऽऽगतः । तद्दानग्रहणं दृष्ट्वा, चिन्तयामास विस्मितः ॥ १७ ॥ अहो धन्याः कृतार्थाश्च, जगत्यत्रत एव हि । देवतामिव यानेवं, नमन्त्येवंविधा अपि ।। १८ ॥ नूनं भिक्षुकताऽप्येषां, स्वर्गादप्यधिकायते । यदेवं प्रतिलाभ्यन्ते, खण्डखाद्यैः सुधातिगैः ॥ १९ ॥ दैन्यं प्रकाशयन्तोऽपि, नारका इव मादृशाः । नान्नलेशमपि क्वापि, लभन्ते तु कुतो पिऽहि ॥ २० ॥ दैन्यातिरेकाद्यत्ते चेत्, कोऽपि किञ्चित् कथञ्चन । तदप्युन्मिश्रमाक्रोशैः, कालकूटकणायितैः ॥ २१ ॥. साधुलब्धी ततः साधू, एतावेवाहमर्थये । दद्यातां यद्यमू किञ्चत्, कारुण्यात् करुणाधनौ ।। २२ ।।