Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 122
________________ ५१२ योगशास्त्रे यदा करोति तदा सामायिकं करोति वा नवा ; यदा तु सर्वतः करोति तदा सामायिकं नियमात्करोति, अकरणे तु तत्फलेन वञ्चयते । सर्वतः पोषधव्रतं च चेत्यग्टहे वा, साधुमूले वा, गृहे वा, पोषधशालायां वा व्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरण: प्रतिपद्यते । तत्र च कृते पठति च पुस्तकं वाचयति धर्मध्यानं ध्यायति, यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च यद्याहारशरीरसत्कारब्रह्मचर्य पोषधवत् कुव्यापारपोषधव्रतमप्यन्यत्रानाभोगेनेत्याद्या तथा कारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं स्यात् । स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति । पोषधवताऽपि सावद्यव्यापारा न कार्या एव ततः सामायिकमकुर्वंस्तल्लाभाद्भश्यतीति । यदि पुनः सामाचारीविशेषात् सामायिकमिव द्विविधं विविधेनेत्येवं पोषधं प्रतिपद्यते तदा सामायि कार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतदयं प्रतिपन्नं मयेत्यभिप्रायात् फलवदिति ॥ ८५ ॥ इदानीं पोषधव्रतकर्तृन् प्रशंसति - गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधव्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनौपिता ॥ ८६ ॥ यतयस्तावद् धन्या एव गृहिणोऽपि ग्टहस्था अपि ते धन्याः धर्मधनं

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204