Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 167
________________ तृतीयः प्रकाशः । ५५७ र्मुहुर्योषायामारोहति, जातबलक्षयच वाजीकरणान्युपयुङ्क्ते ; अनेन खल्वौषधप्रयोगेण गजप्रमेको तुरगावमर्दीव पुरुषो भवतोति बुझा । इति चतुर्थः ४ । तथा अनङ्गः कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा, हस्तकर्मादीच्छा वा वेदोदयात् । योषितोऽपि योषिनपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसक पुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् तेन तस्मिन् वा क्रीडा रमणमनङ्गक्रीडा | यहा । आहार्यैः काष्ठपुस्तफलमृत्तिका चर्मादिभिर्घटितैः प्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुथाति, केशाकर्षणप्रहारदानदन्तनख कदर्थनाऽऽदिप्रकारैश्च मोहनौयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवाऽङ्गं देहावयवो मेथुनापेक्षया योनिर्मेहनं वा तातिरिक्तान्यङ्गानि कुचकक्षोरुवदनादीनि तेषु क्रीडा अनङ्गक्रीडा | इह च श्रावकाऽत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्दिधातुं न शक्नोति, तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्याग्रहानङ्गक्रीडे अर्थतः प्रतिषिडे । तत्सेवने न च कश्विद्गुणः, प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति । एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ । अन्ये त्वन्यथाऽतिचारद्दयमपि भावयन्ति - सहि स्वदारसन्तोषौ मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि ; परदारविवर्जकोऽपि

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204