Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 168
________________ ५५८ योगशास्त्रे परदारेषु मैथुनं परिहरति, नालिङ्ग नादि ; इति कथञ्चिहतसापेक्षत्वादतिचारौ। एवं खदारसन्तोषिणः पञ्चातिचाराः परदारधर्जकस्य तूत्तरे त्रय एवेति स्थितम् । अन्ये त्वन्यथाऽतिचारान् विचारयन्तियथा. .'परदारवज्जिणो पञ्च हुन्ति तिमि उ सदारसंतुढे । . इत्थीउ तिमि पञ्च व भंगविगप्पेहि अइयारा ॥ १ ॥ इत्वरकालं या परेण भाव्यादिना परिग्टहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः कथञ्चित् परदारत्वात्तस्याः, लोके तु परदारत्वारूढेन भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः। अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः सोऽप्यतिचारः ; तत्कल्पनयाऽपरस्य भर्तुरभावनापरदारत्वादभङ्गः, लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतिचारः । शेषास्तु त्रयो हयो. रपि भवेयुः, स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोन भेदः ; स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति पञ्च वा। कथम् । आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपत्नया परिरहोतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचार:, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरत्या अतिचारः, ब्रह्म (१) परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रियास्त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥ १ ॥

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204