________________
५५८
योगशास्त्रे परदारेषु मैथुनं परिहरति, नालिङ्ग नादि ; इति कथञ्चिहतसापेक्षत्वादतिचारौ। एवं खदारसन्तोषिणः पञ्चातिचाराः परदारधर्जकस्य तूत्तरे त्रय एवेति स्थितम् । अन्ये त्वन्यथाऽतिचारान् विचारयन्तियथा. .'परदारवज्जिणो पञ्च हुन्ति तिमि उ सदारसंतुढे । .
इत्थीउ तिमि पञ्च व भंगविगप्पेहि अइयारा ॥ १ ॥ इत्वरकालं या परेण भाव्यादिना परिग्टहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः कथञ्चित् परदारत्वात्तस्याः, लोके तु परदारत्वारूढेन भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः। अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः परदारवर्जिनः सोऽप्यतिचारः ; तत्कल्पनयाऽपरस्य भर्तुरभावनापरदारत्वादभङ्गः, लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतिचारः । शेषास्तु त्रयो हयो. रपि भवेयुः, स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोन भेदः ; स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति पञ्च वा। कथम् । आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपत्नया परिरहोतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुञ्जानाया अतिचार:, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरत्या अतिचारः, ब्रह्म
(१) परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे ।
स्त्रियास्त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥ १ ॥