________________
तृतीयः प्रकाशः ।
५५७
र्मुहुर्योषायामारोहति, जातबलक्षयच वाजीकरणान्युपयुङ्क्ते ; अनेन खल्वौषधप्रयोगेण गजप्रमेको तुरगावमर्दीव पुरुषो भवतोति बुझा । इति चतुर्थः ४ । तथा अनङ्गः कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा, हस्तकर्मादीच्छा वा वेदोदयात् । योषितोऽपि योषिनपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्यापि नपुंसक पुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा । एषोऽनङ्गो नान्यः कश्चित् तेन तस्मिन् वा क्रीडा रमणमनङ्गक्रीडा | यहा । आहार्यैः काष्ठपुस्तफलमृत्तिका चर्मादिभिर्घटितैः प्रजननैः स्वलिङ्गेन कृतकृत्योऽपि योषितामवाच्यदेशं भूयो भूयः कुथाति, केशाकर्षणप्रहारदानदन्तनख कदर्थनाऽऽदिप्रकारैश्च मोहनौयकर्मावेशात् तथा क्रीडति यथा बलवान् रागः प्रसूयते । अथवाऽङ्गं देहावयवो मेथुनापेक्षया योनिर्मेहनं वा तातिरिक्तान्यङ्गानि कुचकक्षोरुवदनादीनि तेषु क्रीडा अनङ्गक्रीडा | इह च श्रावकाऽत्यन्तपापभीरुतया ब्रह्मचर्यं चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्दिधातुं न शक्नोति, तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्याग्रहानङ्गक्रीडे अर्थतः प्रतिषिडे । तत्सेवने न च कश्विद्गुणः, प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति । एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ । अन्ये त्वन्यथाऽतिचारद्दयमपि भावयन्ति - सहि स्वदारसन्तोषौ मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि ; परदारविवर्जकोऽपि