________________
५५६
योगशास्त्रे
तानां विवाहनं विवाहकरणं कन्याफललिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च खदारसन्तोषवता स्वकलत्रात् परदारवर्जकेन च स्वकलनवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कायं न च कारणीयमिति यदा प्रतिपन्नं व्रतं भवति, तदा अन्यविवाह करणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति, तद्वती तु मन्यते-विवाह एवाऽयं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचार इति कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नाऽवस्थायां सम्भवति, मिथ्यादृष्टस्तु भद्रकावस्थायामनु. ग्रहार्थं व्रतादाने सा सम्भवति। नन्वन्यविवाहनवत् स्वापत्यविवाह नेऽपि समान एव दोषः । सत्यम् । यदि खकन्याया विवाहो न कार्यते, तदा स्वच्छन्दचारिणी स्यात्, ततश्च शासनोपधात: स्यात् ; विहितविवाहा तु पतिनियन्त्रितत्वेन तथा स्यात् । परेऽप्याहु:
पिता रक्षति कौमारे भर्ता रक्षति यौवने।
पुत्रस्त स्थविरे भावे न स्त्री स्वातन्वामहति ॥ १ ॥ यस्तु दाशाहस्य कृष्णस्य चेटकराजस्य च स्वापत्येष्वपि विवाहनियमः श्रूयते, स चिन्तकान्तरसद्भावे द्रष्टव्यः । अन्ये वाहु:अन्यस्य कलनाऽन्तरस्य विशिष्ट सन्तोषाभावात् स्वयं विवाहनमन्य विवाहनम् । अयं वदारसन्तुष्टस्याऽतिचारः । इति टतौयः ३ । मदने कामेऽत्याग्रहः परित्यक्तान्यसकलव्यापारस्य तदध्यवसायत: योषामुखकक्षोरूपस्थान्तरेष्वविटप्ततया प्रक्षिप्य प्रजननं महतों वेलां निश्चलो मृत एवास्ते, चटक इव चटकायां मुहु