________________
तृतीयः प्रकाशः |
स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमात्ता इत्वरात्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता इत्वरात्ता, मयूरव्यंसकादित्वात् समासः, कालशब्दलीपश्च । तस्यां गम आसेवनम् । इयं चात्र भावना - भाटी प्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया खदारत्वेन व्रतसापेक्ष - चित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्गः, इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः । इति प्रथमः १ । तथा अनात्ता अपरिग्टहीता वेश्या स्वैरिणो, प्रोषितभर्तृका .कुलाङ्गना` वाऽनाथा तस्यां गतिरासेवनम् । इयं चानाभोगादिना श्रतिक्रमादिना वा अतिचारः । इमौ चातिचारौ खदारसन्तोषिण एव, न तु परदारवर्जकस्य ; इत्वरात्ताया वेश्यात्वेन अनात्तायाः स्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा हयोरपि ; इदं च सूत्राऽनुपाति ।
५५५
यदाहु:-.
'सदारसंतोसस्म इमे पञ्च अइयारा जाणियव्वा न समायरिअव्वा । अन्ये त्वाहुः -इत्वरात्तागमः खदारसन्तोषवतोऽतिचारस्तव भावना कृतैव, अनात्तागतिस्तु परदारवर्जिनः । अनात्ता हि वेश्या यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः। इति द्वितीयः २ । तथाऽन्येषां स्वस्वापत्यव्यतिरि
(१) स्वदार सन्तोषस्येमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः ।