SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ५५४ ___ योगशास्त्रे तथा मीयतेऽनेनेति मानं कुडवादि, पलादि, हस्तादि, तस्यान्यत्वं होनाधिकत्वं, होनमानेन ददाति, अधिकमानेन ग्रह्णाति । इति पञ्चमः ५। प्रतिरूपक्रिया मानान्यत्वं च परव्यसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौयं प्रसिहं, मया तु वणिक्कलैव कृतति भावनया व्रतरक्षणोद्यतत्वादतिचारावेवेति । अथवा स्तेनानुज्ञादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रमव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते । न चैते राजसेवकादीनां न सम्भवन्ति, तथाहि-आद्ययोः स्पष्ट एव सम्भवः, विड्राज्यलङ्घनं तु यदा सामन्तादिः कश्चित् खखामिनो वृत्तिमुपजीवति, तबिरुद्धस्य च सहायों भवति, तदाऽस्यातिचारो भवति, प्रतिरूपकिया मानान्यत्वं च यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति, तदा राज्ञोऽप्यतिचारो भवति। एते च पञ्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥ ८३॥ अथ चतुर्थव्रतातिचारानाहइत्वरात्तागमोऽनात्तांगतिरन्यविवाहनम् । • मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ ६४ ॥ ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः स्मृताः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः ; सा चासावात्ता च कञ्चित्कालं भाटीपदानादिना संग्रहीता, पुंवद्भावे इत्वरात्ता। अथवा इखरं
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy