SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । ५५३ वा तदानीतादानं, स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्राहंश्चोरो भवति, ततश्चौर्य करणाइतभङ्गः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वान्न तद्भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः २ । तथा द्विषोविरुद्धयोराजोरिति शेषः, राज्यं नियमिता भूमि: कटकं वा तस्य लङ्घनं व्यवस्थाऽतिक्रमः ; व्यवस्था च परस्परविरुद्धराजकतैव, . तल्लङ्घनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः, इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः, हिड्रराज्यलङ्घनस्य यद्यपि खस्वामिना अननुज्ञातस्य 'सामिजीवादत्तं तित्थयरेणं तहेव य गुरूहिं' इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन अदत्तादानरूपत्वाइतभङ्ग एव, तथापि हिड्ाज्यलङ्घन कुर्वता · मया वाणिज्यमेव कृतं न चौर्य मिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचारता । इति वतीयः ३। तथा प्रतिरूपं सदृशं व्रीहीणां पलन्जिः, तस्य वसा, हिङ्गोः खदिरादिवेष्टः, तैलस्य मूत्रं, जात्यसुवर्णरूप्ययोयुक्तिसुवर्णरूप्ये, इत्यादिप्रतिरूपण क्रियाव्यवहारः, ब्रौह्यादिषु पलजमादि प्रक्षिप्य तत्तहिकोणीते। यहा, अपहतानां गवादीनां सशृङ्गाणामग्निपक्ककालिङ्गीफलस्वेदादिना शृङ्गाण्यधोमुखानि प्रगुणानि तिर्यग्वलितानि वा यथारुचि विधायान्यविधत्वमिव सेषामापाद्य सुखेन धारण विक्रयादि करोति । इति चतुर्थः ४ । (१) ख च वा भ-| (२) क ड -यान्य त्वमिव । ७०
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy