________________
५५२
योगशास्त्रे
कत एव गुह्यं प्रकाशयति, इह तु स्वयं मयित्वेव मन्त्र भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४ । तथा कूटमसद्भूतं तस्य लेखो लेखनं कूटलेख:, अन्यस्वरूपाक्षरमुद्राकरणम्, एतन्न यद्यपि कायेनासत्यां वाचं न वदामोत्यस्य न वदामि न वादयामौत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिना अतिक्रमादिना वाऽतिचारः; अथवा असत्यमित्यसत्यभणनं. मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया व्रतसापेक्षस्यातिचार एवेति पञ्चमोऽतिचारः ५ ॥ ८१ ॥
___अथ तृतीयव्रतातिचारानाह - स्तेनानुज्ञा-तदानीतादानं विटाज्यलङ्घनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥ ६२ ॥ स्तेनाथौरास्तेषामनुज्ञा-हरत यूयमिति हरण क्रियायां प्रेरणा, अथवा स्तेनोपकरणानि कुशिकाकर्त्तरिकाघर्धरिकादीनि तेषा मर्पणं विक्रयणं वा स्तेनानुज्ञा। अत्र च यद्यपि चौर्य न करोमि न कारयामौत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञाव्रतभङ्ग एव, तथापि किमधुना यूयं निर्व्यापारास्तिष्ठत ?, यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि ?, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्थे ? इत्येवंविधवचनैश्चौरान् व्यापारयत: वकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । इति प्रथमोऽतिचारः १। तथा तच्छब्देन स्तेनपरामर्थः स्तेनरानीतमाहृतं कनकवस्त्रादि तस्यादानं ग्रहणं मूल्येन मुधिकया