SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः | ५५१ तथा स्त्रियमभ्याख्याति भर्त्तुः पुरः - यथा पत्नी ते कथयति एवमयं मां रहसि कामगर्दभः खलीकरोति, अथवा दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा येन रागप्रकर्ष उत्पद्यते तेन तादृशा रहस्येनानेक प्रकारेणाभिशंसनं हास्यक्रीडादिना नत्वभिनिवेशेन ; तथा सति व्रतभङ्ग एव स्यात् । यदाह 'सहसा भक्वागाई जाणतो जइ करेज्ज तो भंगो । जदू पुण णाभोगाईहिंतो तो होइ अध्यारो ॥ १ ॥ इति द्वितीयोऽतिचारः २ । तथा गुह्यं गूहनीयं नः सर्वस्मै यत्कथनीयं राजादिकार्य्य संबद्धं तस्यानधिक्कृतेनैवाकारेङ्गितादिभिर्ज्ञात्वा ऽन्यस्मै प्रकाशनं गुह्यभाषणं यथा - एते होदमिदं च राजविरुद्धादिकं मन्त्रयन्ते, अथवा गुह्यभाषणं पैशुन्यं यथा - - द्वयोः प्रोतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति । इति तृतीयोऽतिचारः ३ | तथा विश्वस्ता विश्वासमुपगता ये मित्रकलत्त्रादयस्तेषां मन्त्रो मन्त्रणं तस्य भेदः प्रकाशनं तस्यानुवादरूपत्वेन, सत्यत्वात् यद्यपि नातिचारता घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽ ऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधि (१) सहसाभ्याख्यानादीन् जानन् यदि कुर्यात् ततो भङ्गः | यदि पुनरनाभोगादिभ्यस्ततो भवत्यतिचारः ॥ १ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy