Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 174
________________ ५६४ . योगशास्त्रे गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं, स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ८७ ॥ अथ दितीयगुणव्रतस्य भोगोपभोगमानरूपस्यातिचारानाहसचित्तस्तेन सम्बद्धः सन्मियोऽभिषवस्तथा । दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ६८॥ सह चित्तेन चेतनया वर्तते यः स सचित्तः आहार एव, आहारस्तु दुष्यवाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु कन्दमूलफलादिः पृथ्वीकायादिर्वा । इह च निवृत्तिविषयोक्तप्रवृत्तौ भङ्गसद्भावेऽप्यतिचारा. भिधानं व्रतसापेक्ष स्यानाभोगातिक्रमादिना प्रवृत्ती द्रष्टव्यम् १ । तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिना सम्बद्धो गुन्दादिः पक्कफलादिर्वा, सचित्तान्तर्बीजः खजूराम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्कं खजुरादिफलं मुखे प्रक्षिपत: सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारो हितीयः २ । तथा सचित्तेन मिश्रः शबलः आहारः सन्मियाहारः । यथा-आद्रकदाडिमबीजकुलिकाचिटिकादिमित्रः पूरणादिः, तिलमिथो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनाऽतिचारः। अथवा सम्भवत्सचित्तावयवस्यापक्क कणिकादेः पिष्टत्वादिना अचे

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204