Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
टतीयः प्रकाशः।
५६३
ऽतिचारः १ । तथा ऊर्द्ध पर्वततरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक् पूर्वादिदिक्षु, योऽसौ भागो नियमितः प्रदेशः, तस्य व्यतिक्रमः ; एते त्रयोऽतिचाराः । यत्सूत्रम् -
'उडदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे इति ॥
एते च अनाभोगातिक्रमादिभिरेवाऽतिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भगा एव । यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात् परतः स्वयं गमनत: परेण नयनानयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाऽभावात् परेण नयनानयनयोन दोषः २ । ३ । ४ । तथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य हुस्वस्य सतः, वृद्धिवर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपण दीर्धीकरणं, क्षेत्रहहिरिति पञ्चमोऽतिचारः। तथाहि--केनापि पूर्वापरदिशोः प्रत्येक योजनशतं गमनपरिमाणं कृतं, स चोत्पत्रप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्य अन्यस्यां दिशि तु दशोत्तरयोजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतवयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्र वर्धयतो व्रतसापेक्षत्वादतिचार इति। यदि वाऽनाभोगात् क्षेत्रपरिमाणमतिक्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न
(१) अर्द्धदिक प्रमाणातिक्रमोऽधोदिकप्रमाणातिक्रमस्तिर्यदिक प्रमाणाति
क्रमः॥
Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204