Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 194
________________ ५८४ योगशास्त्रे सप्तक्षेत्रयां यथोचितस्य ट्रव्यस्य भक्त्या श्रद्धया, तथाहि-जिनबिम्बस्य तावद्दिशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाऽञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्गकर्केतनविद्रुमसुवर्ण रूप्यचन्दनोपलमृदादिभिः सारद्रव्यविधापनम् । यदाह सन्मृत्तिकामलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥ १ ॥ तथाहि 'पासाइआ पडिमा लक्खणजुत्ता समत्तलसरणा । . जह पह्लाएइ मणं तह निज्जरमो विआणाहि ॥ १ ॥ तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्त विधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरभ्यर्चनं, यात्राविधानं, विशिष्टाभरणभूषणं, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् । यदाह गन्धैर्माल्यैर्विनिर्यदहलपरिमलैरक्षतेधूपदीपैः सानाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः पाकपूतैः फलैश्च । अम्भःसम्पूर्णपात्रेरिति हि जिनपतेरचनामष्टभेदां कुर्बाणा वेश्मभाज: परमपदसुखस्तोममाराल्लभन्ते ॥ १॥ (१) प्रासादिता प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रह्लादयति मनस्तथा निर्जीर्यामो विजानीहि ॥

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204