Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
टतीयः प्रकाश:।
- ५६५ तनमिति बुद्धा आहारः सन्मियाहारः व्रतसापेक्षत्वादतिचार इति तृतीयः ३ । अभिषवोऽनेकद्रव्यसंधाननिष्पन्नः सुरासौवीरकादिः, मांसप्रकारखण्डादिर्वा, सुरामध्वाद्यभिस्यन्दिकृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारवर्जकस्यानाभोगातिक्रमादिनाऽतिचार इति चतुर्थः ४ । तथा दुष्पको मन्दपक्क: स चासावाहारश्च दुष्पक्काहारः, स चार्धखिन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डक'कर्कटकफलादिरैहिकप्रत्यवायकारी यावता चांशन सचेतनस्तावता परलोकमप्युपहन्ति पृथुकादेर्दुष्पकतया सम्भवत्सचेतनावयवत्वात् पक्वत्वेनाचेतनइति भुञ्जानस्याऽतिचार इति पञ्चमः ५। केचित् त्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं चाग्न्यादिना यदसंस्कृतम् । एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति। तुच्छौषधिभक्षणमपि केचिदतिचारमाहुः । तुच्छौषधयश्च मुहादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथ अग्निपाकादिना अचित्तास्तहि को दोषः ? इति । एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिरतिचारा भावनीयाः । एते पञ्चातिचारा भोगाभोगपरिमाणगता बोजव्याः ॥ १८ ॥ अथ भोगोपभोगातिचारामुपसंहरन् भोगोपभोगव्रतस्य
लक्षणान्तरं तहतांश्चातिंचारानुपदर्शयितुमाहअमी भोजनतस्त्याज्याः कर्मत: खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥६६॥
(१) क-कटुकफल-1
Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204