Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 191
________________ तृतीयः प्रकाशः | संक्षेपकरणं देशावकाशिकव्रतम् ? । अत्रोच्यते । प्राणातिपातादिविरमणव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु संक्षिप्तत्वात् क्षेत्रस्य, प्रेष्यप्रयोगादयोऽतिचाराः । भिन्नातिचारसम्भवाच्च दिग्वतसंक्षेपकरणस्यैव देशावकाशिकत्वं साक्षादुक्तमिति ॥ ११७॥ अथ पोषधव्रतस्यातिचारानाह— ५८१ उत्मगीदानसंस्ताराननवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पोषधे ॥ ११८॥ उत्सर्जनमुत्सर्गस्याग उच्चारप्रस्रवणखेल सिंघाणकादीनामवेक्ष्य प्रमृज्य च स्थण्डिलादौ उत्सर्गः कार्यः । अवेक्षणं चक्षुषा निरीक्षणम् । प्रमार्जनं वस्त्रप्रान्तादिना स्थण्डिलादेरेव विशुद्धीकरणम् । अथानवेक्ष्याप्रमृज्य चोत्सर्गं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १ । आदानं ग्रहणं यष्टिपीठफलकादीनाम्, तदप्यवेक्ष्य प्रमृज्य च कार्यम्, अनवेक्षितस्याप्रमार्जितस्य चादानमतिचारः । आदानग्रहणेन निक्षेपोऽप्युपलक्ष्यते यष्ट्यादीनाम्, तन सोऽप्यवेक्ष्य प्रमाज्यं च काय्र्यः ; अनवेक्ष्याप्रमृज्य च निक्षेपोऽतिचार इति द्वितीयः २ । तथा संस्तीर्यते यः प्रतिपन्न - पोषधव्रतेन दर्भकुशकम्बलिवस्त्रादिः स संस्तारः, स चावेक्ष्य प्रमार्ण्य च कर्तव्यः, अनवेक्ष्याप्रमाये च करणेऽतिचारः । इह चानवेक्षणेन दुरवेक्षणम्, अप्रमार्जनेन दुष्प्रमार्जनं संग्टह्यते, नञः कुत्मार्थस्याऽपि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः ।

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204