Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 186
________________ योगशास्त्रे कायस्य वाचो मनसश्च प्रणिहिति: प्रणिधानम्, दुष्टं च तत्प्रणिधानं दुष्टप्रणिधानं सावखे प्रवर्तनं कायदुष्पणिधानं, वाग्दुष्पणिधानं, मनोदुष्पणिधानं चेत्यर्थः । तत्र शरीरावयवानां पाणिपादादीनामनिभृतताऽवस्थापनं कायदुष्पणिधानम्, वर्ण संस्काराभावोऽर्थानवगमश्चापलं च वाग्दुष्पणिधानम्, क्रोधलोभद्रोहाऽभिमान र्णादयः कार्यव्यासङ्गसम्धमश्च मनोदुष्पणिधानम् ; एते त्रयोऽतिचाराः। यदाहुः 'अनिरिक्खियापमज्जियथण्डिल्ले ठाणमाइ सेवन्तो। हिंसाभावे वि न सो कडसामाइओ पमायाउ ॥१॥ कडसामाइउ पुव्विं बुद्धीए पहिऊण भासिज्जा । सइ निरवज्ज वयणं अबह सामाइयं न हवे ॥ २ ॥ सामाइयं तु काउं घरचिन्तं जो उ चिन्तए सडो। अवसट्टोवगो निरत्ययं तम्म सामाइयं ॥ ३ ॥ तथाऽनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्. (१) अनिरोक्षिताऽप्रमार्जितस्थण्डिले स्थानादि मेवमानः | हिंसाभावेऽपि न स कतसामायिकः प्रमादात् ॥ १ ॥ सतसामायिकः पूर्व बुद्धया प्रेच्य भाषेत। सहा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ २ ॥ सामायिकं तु कृत्वा ग्टहचिन्तां यस्तु चिन्तयेत् श्राद्धः । आर्तवशार्तापगतो निरर्थकं तस्य सामायिकम् ॥ ३॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204