Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 178
________________ योगशास्त्रे करणात्, शिलाशिलापुत्रकादिना पेषात् चूर्णीकरणाद्या वृत्तिः सा वनजीविका। वनजीविका च वनस्पतिकायादिघात सम्भवा ॥१०३ ॥ अथ शकटजीविकामाहशकटानां तदङ्गानां घटनं खेटनं तथा। विक्रयश्चेति शकटजीविका परिकीर्तिता ॥१०४॥ शकटानां चतुष्पदवाह्यानां वाहनानां, तदङ्गानां शकटाङ्गानां चक्रादीनां, घटनं स्वयं परेण वा निष्पादनं, खेटनं वाहनं, तच्च शकटानामेव सम्भवति स्वयं परेण वा; विक्रयश्च शकंटानां तदङ्गानां च, इति सकलभूतोपमर्दजननी गवादीनां च वधबन्धादिहेतुः शकटजीविका प्रकीर्तिता ॥ १०४ ॥ अथ भाटकजीविकामाहशकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद्भाटकजीविका ॥१०५॥ शकटशब्द उतार्थः, उक्षाणो बलौवर्दाः, लुलाया महिषाः, उष्ट्राः करभाः, खरा रासभाः, अखतरा वेसराः, वाजिनोऽश्वाः, एतेषां भाटकनिमित्तं यद्भारवाहनं, तस्माद या वृत्तिः सा भाटकजीविका ॥ १०५॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204