________________
५६४
. योगशास्त्रे
गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा यत् तेन लब्धं, स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ८७ ॥ अथ दितीयगुणव्रतस्य भोगोपभोगमानरूपस्यातिचारानाहसचित्तस्तेन सम्बद्धः सन्मियोऽभिषवस्तथा ।
दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ६८॥ सह चित्तेन चेतनया वर्तते यः स सचित्तः आहार एव, आहारस्तु दुष्यवाहार इत्यस्मादाकृष्य सम्बध्यते, एवमुत्तरेष्वप्याहारशब्दो योजनीयः । सचित्तस्तु कन्दमूलफलादिः पृथ्वीकायादिर्वा । इह च निवृत्तिविषयोक्तप्रवृत्तौ भङ्गसद्भावेऽप्यतिचारा. भिधानं व्रतसापेक्ष स्यानाभोगातिक्रमादिना प्रवृत्ती द्रष्टव्यम् १ । तेन सचित्तेन सम्बद्धः प्रतिबद्धः सचित्तसंबद्धः, सचेतनवृक्षादिना सम्बद्धो गुन्दादिः पक्कफलादिर्वा, सचित्तान्तर्बीजः खजूराम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि तस्यैव सचेतनत्वात्, कटाहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुद्ध्या पक्कं खजुरादिफलं मुखे प्रक्षिपत: सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारो हितीयः २ । तथा सचित्तेन मिश्रः शबलः आहारः सन्मियाहारः । यथा-आद्रकदाडिमबीजकुलिकाचिटिकादिमित्रः पूरणादिः, तिलमिथो यवधानादिर्वा, अयमप्यनाभोगातिक्रमादिनाऽतिचारः। अथवा सम्भवत्सचित्तावयवस्यापक्क कणिकादेः पिष्टत्वादिना अचे