________________
५१२
योगशास्त्रे
यदा करोति तदा सामायिकं करोति वा नवा ; यदा तु सर्वतः करोति तदा सामायिकं नियमात्करोति, अकरणे तु तत्फलेन वञ्चयते । सर्वतः पोषधव्रतं च चेत्यग्टहे वा, साधुमूले वा, गृहे वा, पोषधशालायां वा व्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरण: प्रतिपद्यते । तत्र च कृते पठति च पुस्तकं वाचयति धर्मध्यानं ध्यायति, यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । इह च यद्याहारशरीरसत्कारब्रह्मचर्य पोषधवत् कुव्यापारपोषधव्रतमप्यन्यत्रानाभोगेनेत्याद्या
तथा
कारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं स्यात् । स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति । पोषधवताऽपि सावद्यव्यापारा न कार्या एव ततः सामायिकमकुर्वंस्तल्लाभाद्भश्यतीति । यदि पुनः सामाचारीविशेषात् सामायिकमिव द्विविधं विविधेनेत्येवं पोषधं प्रतिपद्यते तदा सामायि कार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतदयं प्रतिपन्नं मयेत्यभिप्रायात् फलवदिति ॥ ८५ ॥
इदानीं पोषधव्रतकर्तृन् प्रशंसति -
गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधव्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनौपिता ॥ ८६ ॥
यतयस्तावद् धन्या एव गृहिणोऽपि ग्टहस्था अपि ते धन्याः धर्मधनं