________________
टतीयः प्रकाशः ।
५११
कर्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य विभिन्न व्रतत्वे हादश व्रतानीति संख्या विरोध: स्यात् ॥ ८४ ॥ अथ टतीयं शिक्षाव्रतमाह --
चतुष्पी चतुर्थादिकुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पोषधव्रतम् ॥८५॥ चतुष्पर्वी अष्टमी चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णां पर्वाणां समाहारश्चतुष्यर्वी। पर्वशब्दोऽकारान्तोऽप्यस्ति ; तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावद्यव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः। आदिशब्दादुहर्तनवर्णकविलेपनपुष्यगन्धविशिष्टवस्त्राभरणादिपरिग्रहः । पोषं पुंष्टिं प्रक्रमाद्धम्मस्य धत्ते पोषध: स एव व्रतं पोषधव्रतम् । सर्वतः पोषध इत्यर्थः । विविधं हि पोषधव्रतं देशतः सर्वतश्च । तत्राहारपोषधो देशतो विवक्षितविकृतेरविकतराचामाम्लस्य वा सक्कदेव हिरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्थाप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् ; कुव्यापारनिषेधपोषधस्तु देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषामपि कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणं, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रानावेव वा, सक्कदेव हिरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् ; सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् । देशतः सानादेः शरीरसत्कारस्यैकतरस्याकरणं सर्वतस्तु सर्वस्यापि तस्याकरणम् ; इह च देशतः कुव्यापारनिषेधपोषधं