SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ५१० योगशास्त्रे गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रतो दीपके क्षीणतैले तैलं न्यधात्पुनः ॥ ६ ॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७ ॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्लान्तो राजा स इव दीपकः ॥ ८ ॥ सामायिकं समधिगम्य निहत्य कर्म चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकव्रतजुषो गृहिणोऽपि सद्यः क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥ ८ ॥ ॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥ ८३ ॥ द्वितीयं शिक्षाव्रतमाह- दिग्वते परिमाणं यत्तस्य संक्षेपणं पुनः । दिने रात्रौ च देशाकाशिकात मुच्यते ॥ ८४ ॥ दिग्वते प्रथमगुणव्रते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वाग्रहरादौ च यत् सङ्क्षेपणं तद्देशावकाशिकव्रतम् । देशे दिग्वतग्टहोतपरिमाणस्य विभागे अवकाशोऽवस्थानं देशावकाशः सोऽत्रास्तीति देशावकाशिकं “अतोऽनेकस्वरात्” ॥ ७ । २ । ६ ॥ इतोकः । दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्ष ं द्रष्टव्यम् । एषामपि संक्षेपस्यावश्यं
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy