SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । आगतस्य च यद्यसौ श्रावको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथा भद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते | आचार्याश्च पूर्वमेवोत्थिता असते मा उत्थानामुत्थानकृता दोषा भूवन्निति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् ॥ ८२ ॥ सामायिकस्थश्च महानिर्जरो भवतीति दृष्टान्तद्दारेणाहसामायिकव्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव क्षीयते कर्म सञ्चितम् ॥ ८३ ॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रा वतंसक उदाहरणम् । तच्च सम्प्रदायगम्यम् । स चायम् – ५०८ अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सितार्हचैत्यकेतनैः ॥ १ ॥ तत्र लोकट्टगानन्दो द्वितीय इव चन्द्रमाः । चन्द्रावतंसो राजाऽसोदवतंस इवावनेः ॥ २ ॥ स यथा धारयामास शस्त्राणि त्राणहेतवे । तीक्ष्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः ॥ ३ ॥ माघमासे विभावयां सोऽन्यदा वासवेश्मनि । आदीपज्वलनं स्थास्यामीति सामायिके स्थितः ॥ ४ ॥ तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥ ५ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy