Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
५५४
___ योगशास्त्रे
तथा मीयतेऽनेनेति मानं कुडवादि, पलादि, हस्तादि, तस्यान्यत्वं होनाधिकत्वं, होनमानेन ददाति, अधिकमानेन ग्रह्णाति । इति पञ्चमः ५। प्रतिरूपक्रिया मानान्यत्वं च परव्यसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौयं प्रसिहं, मया तु वणिक्कलैव कृतति भावनया व्रतरक्षणोद्यतत्वादतिचारावेवेति । अथवा स्तेनानुज्ञादयः पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसाकारादिना अतिक्रमव्यतिक्रमादिना वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्ते । न चैते राजसेवकादीनां न सम्भवन्ति, तथाहि-आद्ययोः स्पष्ट एव सम्भवः, विड्राज्यलङ्घनं तु यदा सामन्तादिः कश्चित् खखामिनो वृत्तिमुपजीवति, तबिरुद्धस्य च सहायों भवति, तदाऽस्यातिचारो भवति, प्रतिरूपकिया मानान्यत्वं च यदा राजा भाण्डागारे द्रव्याणां विनिमयं मानान्यत्वं च कारयति, तदा राज्ञोऽप्यतिचारो भवति। एते च पञ्चाप्यस्तेयव्रताश्रिता अतिचाराः ॥ ८३॥
अथ चतुर्थव्रतातिचारानाहइत्वरात्तागमोऽनात्तांगतिरन्यविवाहनम् । • मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ ६४ ॥ ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः स्मृताः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः ; सा चासावात्ता च कञ्चित्कालं भाटीपदानादिना संग्रहीता, पुंवद्भावे इत्वरात्ता। अथवा इखरं
Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204