Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 162
________________ ५५२ योगशास्त्रे कत एव गुह्यं प्रकाशयति, इह तु स्वयं मयित्वेव मन्त्र भिनत्तीत्यनयोर्भेदः । इति चतुर्थोऽतिचारः ४ । तथा कूटमसद्भूतं तस्य लेखो लेखनं कूटलेख:, अन्यस्वरूपाक्षरमुद्राकरणम्, एतन्न यद्यपि कायेनासत्यां वाचं न वदामोत्यस्य न वदामि न वादयामौत्यस्य वा व्रतस्य भङ्ग एव, तथापि सहसाकारानाभोगादिना अतिक्रमादिना वाऽतिचारः; अथवा असत्यमित्यसत्यभणनं. मया प्रत्याख्यातमिदं पुनर्लेखनमिति भावनया व्रतसापेक्षस्यातिचार एवेति पञ्चमोऽतिचारः ५ ॥ ८१ ॥ ___अथ तृतीयव्रतातिचारानाह - स्तेनानुज्ञा-तदानीतादानं विटाज्यलङ्घनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥ ६२ ॥ स्तेनाथौरास्तेषामनुज्ञा-हरत यूयमिति हरण क्रियायां प्रेरणा, अथवा स्तेनोपकरणानि कुशिकाकर्त्तरिकाघर्धरिकादीनि तेषा मर्पणं विक्रयणं वा स्तेनानुज्ञा। अत्र च यद्यपि चौर्य न करोमि न कारयामौत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञाव्रतभङ्ग एव, तथापि किमधुना यूयं निर्व्यापारास्तिष्ठत ?, यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि ?, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्थे ? इत्येवंविधवचनैश्चौरान् व्यापारयत: वकल्पनया तयापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । इति प्रथमोऽतिचारः १। तथा तच्छब्देन स्तेनपरामर्थः स्तेनरानीतमाहृतं कनकवस्त्रादि तस्यादानं ग्रहणं मूल्येन मुधिकया

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204