Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 160
________________ ५५० योगशास्त्रे यच्चोक्तम्-व्रतयत्ता 'विशौर्येत इति । तदयुक्तम्। विशुद्दाहिंसासद्भावे हि बन्धादीनामभाव एव। तत् स्थितमेतबन्धादयोऽतिचारा एव । बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्रप्रयोगादयोऽन्येऽप्यतिचारतया जेयाः ॥ ८ ॥ अथ द्वितीयस्य व्रतस्यातिचारानाहमिथ्योपदेशः सहसाऽभ्याख्यानं गुह्यभाषणम् । विश्वस्तमन्त्रभेदश्च कूटलेखश्च सूनृते ॥ ६१ ॥ मिथ्योपदेशोऽसदुपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात्परपीडाकरणे उपदेश अतिचारो यथा, वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति । यहा । यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्तु अयथार्थोपदेशो यथा-परण सन्देहापबेन पृष्टे न तथोपदेशः । यहा। विवादे स्वयं परेण वा अन्यतराभिसन्धानोपायोपदेश इति प्रथमोऽतिचारः १ । सहसा अनालोयाभ्याख्यानमसदोषाध्यारोपणं यथा--चौरस्त्व पारदारिको वेत्यादि । अन्ये तु सहसाऽभ्याख्यानस्थाने रहस्याभ्याख्यानं पठन्ति ; व्याचक्षते च - रह एकान्तस्तत्र भवं रहस्यं रहस्येनाभ्याख्यानमभिशंसनमसदध्यारोपणं, रहस्याभ्याख्यानं यथा-यदि वृद्धा स्त्री ततस्तस्यै कथयति,-अयं तव भर्ता तरुण्यामतिप्रसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामो मृदुकाम इति वा परिहसति, (१) क ड विशीर्यत-।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204