Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 484 // 7 शतके उद्देशकः१ आहारकानाहारकवक्तव्यताअधिकारः। सूत्रम् 260 जीवानामनाहारकाल्पहारकताकाल प्रश्ना : / २कं समयं अणाहारए त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति? इति प्रश्नः, उत्तरं तु यदा जीव ऋजुगत्योत्पादस्थानंगच्छति तदा परभवायुषः प्रथम एव समये आहारको भवति, यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्तौ तदाहारणीयपुद्गलानामभावाद्, अत आह पढमे समए सिय आहारए सिय अणाहारए त्ति, तथा यदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह बीयसमये सिय आहारए सिय अणाहारए त्ति, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु वक्रत्रयेण चतुर्भिः समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहरक इति कृत्वा तइए समए सिये त्याद्युक्तम्, वक्रत्रयं चेत्थं भवति, नाड्या बहिर्विदिग्व्यवस्थितस्य सतो यस्याधोलोकादूर्द्धलोक उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमेकेन समयेन विश्रेणितः समश्रेणी प्रतिपद्यते द्वितीयेन नाडी प्रविशति तृतीयेनोर्द्धलोकं गच्छति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थान उत्पद्यते, इह चाद्ये समयत्रये वक्रत्रयमवगन्तव्यं समश्रेण्यैव गमनात्, अन्ये त्वाहुः, वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत्, चतुर्थे समये तु नाडीतो निर्गत्य समश्रेणिं प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति, तत्र चाद्ये समयचतुष्टये वक्रचतुष्टयं / स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति / एवं दंडओ त्ति, अमुनाऽभिलापेन चतुर्विंशति-8 दण्डको वाच्यः, तत्र च जीवपद एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यम्, शेषेषु / तृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वम्, तथाहि, यो मत्स्यादिर्भरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नरकेषूत्पद्यते स एकेन & // 484 //
Loading... Page Navigation 1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578