Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 571
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 543 // आयतकर्णायतस्तम्, एगाहच्चं ति, एका हत्या हननं प्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, कूडाहचं ति कूटे इव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्याऽऽहननं यत्र तत् कूटाहत्यम्, अत्थामे त्ति, अस्थामा सामान्यतः शक्तिविकलः, अबले त्ति शरीरशक्तिवर्जितः, अवीरिए त्ति मानसशक्तिवर्जितः, अपुरिसक्कारपक्कमे त्ति व्यक्तं नवरं पुरुषक्रिया पुरुषकारः पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः, अधारणिज्जं ति, आत्मनो धरणं कर्तुमशक्य मितिकट्ट त्ति, इतिकृत्वेतिहेतोरित्यर्थः, तुरए णिगिण्हइ त्ति, अश्वान् गच्छतो निरुणद्धीत्यर्थः, एगंतमंतं ति, एकान्तं विजनमन्तं भूमिभागम्, सीलाई ति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः, वयाई ति, अहिंसादीनि, गुणाई ति गुणव्रतानि, वेरमणाई ति सामान्येन रागादिविरतयः, पच्चक्खाणपोसहोववासाइंति प्रत्याख्यानं पौरुष्यादिविषयं पौषधोपवास: पर्वदिनोपवासः, गीयगंधव्वनिनाए त्ति गीतं गानमात्रं गन्धर्वं तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः शब्दो गीतगन्धर्वनिनादः // 303 // 14 कालमासे त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसयित्याद्यपि द्रष्टव्यम्, कहिं गए कहिं उववन्ने त्ति प्रश्नद्वये सोहम्मे त्याद्येकमेवोत्तरंगमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनंसामर्थ्यादवगतमेवेत्यभिप्रायादिति। आउक्खएणमायुः कर्मदलिकनिर्जरणेन, भवक्खएणं ति देवभवनिबन्धन देवगत्यादिकर्मनिर्जरणेन, ठिइक्खएणं ति, आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति / / 304 // सप्तमशते नवमोद्देशकः सम्पूर्णः / / 7-9 // |७शतके उद्देशक:९ असंवृतानगाराधिकारः। सूत्रम् 303 युद्ध हताना स्वर्गगमन प्रश्नः / सूत्रम् 304 युद्धे हतस्य श्रमणोपासकनागपौत्र-वरुणस्य सौधर्मे उपपात एकावतारितादि प्रश्नाः। उद्देशकः 10 कालोदायि प्रभृतिरधिकारः। // 543 // ॥सप्तमशतके दशमोद्देशकः॥ अनन्तरोद्देशके परमतनिरास उक्तो दशमेऽपि स एवोच्यत इत्येवंसम्बन्धस्यास्येदं सूत्रम्

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578