Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 570
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 542 // ७शतके उद्देशक: 9 असंवृतानगाराधिकारः। सूत्रम् 303 युद्धे हतानां स्वर्गगमन प्रश्न:। पर्यन्तेषु परिक्षिप्तोयःसतथा तं हेमवय-चित्त-तेणिस-कणगनिउत्त-दारुयागं हैमवतानि हिमवगिरिजातानि, चित्राणि विचित्राणि, तैनिशानि तिनिशाभिधानवृक्षसम्बन्धीनि, स हिमवतीति तद्हणं कनकनियुक्तानि नियुक्तकनकानि दारूणि यत्र स तथा तं संविद्ध चक्कमंडल धुरागं सुष्टु संविद्धे चक्रे यत्र मण्डला च वृत्ता धूर्यत्र स तथा तम्, कालायस-सुकयनेमि-जंतकम्मं कालायसेन लोहविशेषेण सुष्ठ कृतं नेमेः चक्रमण्डलमालाया यन्त्रकर्म, बन्धनक्रिया यत्र स तथा तम्, आइन्न वरतुरय सुसंपउत्तं जात्यप्रधानाश्वैः सुष्ठुसंप्रयुक्तमित्यर्थः, कुसलनर-च्छेयसारहि-सुसंपग्गहियं कुशलनररूपोयश्छेकसारथिर्दक्षप्राजिता तेन सुष्ठुसंप्रगृहीतो यः स तथा तम्, सर-सय-बत्तीसय-तोणपरिमंडियं शराणांशतं प्रत्येकं येषु ते शरशतास्तैात्रिंशता तोणैः शरधिभिः परिमण्डितो यःस तथा तम्, सकंकड-वडेंसगंसह कङ्कटैः कवचैरवतंसैश्च शेखरकैः शिरस्त्राणभूतैर्यः स तथा तम्, सचावसर- पहरणावरणभरिय-जोहजुद्धसज्जं सह चापशरैर्यानि प्रहरणानि खड्गादीन्यावरणानि च स्फुरकादीनि तेषां भृतोऽत एव योधानां युद्धसज्जश्च युद्धप्रगुणो यः स तथा तम्, चाउग्घंटं आसरहं जुत्तामेव त्ति, वाचनान्तरे तु साक्षादेवेदं दृश्यत इति, अयमेयारूवं ति प्राकृतत्वादिदमेतद्रूपं वक्ष्यमाणरूपम्, सरिसए त्ति सदृशकः समानः, सरिसत्तए त्ति सदृशत्वक् सरिसव्वए त्ति सदृग्वयाः सरिसभंडमत्तोवगरणे त्ति सदृशी भाण्डमात्रा प्रहरणकोशादिरूपा,उपकरणंच कटादिकं यस्य स तथा, पडिरहं ति रथं प्रति, आसुरुत्ते त्ति, आशु शीघ्रं रुप्तः कोपोदयाद्विमूढः, रूप लुप विमोहन यिति वचनात्, स्फुरितकोपलिङ्गोवा, यावत्करणादिदं दृश्यं रुढे कुविए चंडिक्किए त्ति तत्र रुष्ट उदितक्रोधः, कुपितः प्रवृद्धकोपोदयः, चाण्डिकितः सञ्जातचाण्डिक्यः प्रकटितरौद्ररूपं इत्यर्थः, मिसिमिसीमाणे त्ति क्रोधाग्नि दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, ठाणं ति पादन्यासविशेषलक्षणं ठाति त्ति करोति, आययकण्णाययं ति, आयत आकृष्टः सामान्येन स एव कर्णायत आकर्णमाकृष्ट // 42 //

Loading...

Page Navigation
1 ... 568 569 570 571 572 573 574 575 576 577 578