Book Title: Vyakhyapragnaptisutram Part 01
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 515 // ७शतके उद्देशकः६ आयुष्काधिकारः। सूत्रम् 287 दुःषमादुःषमाऽऽरकाऽऽकारभावप्रत्यावतारः। रेणुकलुषाः, तमःपटलेनान्धकारवृन्देन निरालोका निरस्तप्रकाशा निरस्तदृष्टिप्रसरा वा तमःपटलनिरालोकाः, ततः कर्मधारयः, समयलुक्खयाए णं कालरूक्षतया चेत्यर्थः, अहिय न्ति, अधिकम्, अहितं वाऽपथ्यम्, मोच्छंति त्ति मोक्ष्यन्ति म्रक्ष्यन्ति, अदुत्तरं च त्ति, अथापरं च, अरसेमह त्ति, अरसाऽमनोज्ञा मनोज्ञरसवर्जितजला ये मेघास्ते तथा, विरसमेह त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यतेखारमेह त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः, खत्तमेह त्ति करीषसमानरसजलोपेतमेघाः, खट्टमेह त्ति क्वचिदृश्यते तत्राम्लजला इत्यर्थः, अग्गिमेह त्ति, अग्निवद्दाहकारिजला इत्यर्थः, विज्जुमेह त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः, विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तोवा, विसमेह त्ति जनमरणहेतुजला इत्यर्थः, असणिमेह त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः, अपियवणिज्जोदग त्ति, अपातव्यजलाः, अजवणिज्जोदए त्ति क्वचिदृश्यते तत्रायापनीयंन यापनाप्रयोजनमुदकं येषां तेऽयापनीयोदकाः, वाहिरोगवेदणोदीरणापरिणामसलिल त्ति व्याधयः स्थिराः कुष्ठादयः, रोगाः सद्योघातिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञाप(अपा?)नीयकाः, चंडानिलपहयतिक्खधारानिवायपउरं ति चण्डानिलेन प्रहतानां तीक्ष्णानां वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तम्, जेणं ति येन वर्षेण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः, जणवयं ति मनुष्यलोकम्, चउप्पयगवेलए त्ति, इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गाव एलकशब्देन तूरभ्राः, खहयरे त्ति खचरांश्च, कान्? इत्याह पक्खिसंघे त्ति पक्षिसङ्घातान्, तथा गामारण्णपयारनिरए त्ति ग्रामारण्ययोर्यः प्रचारस्तत्र निरता येते तथा तान्, कान्? इत्याह तसे पाणे बहुप्पयारे त्ति द्वीन्द्रियादीनित्यर्थः, रुक्खे त्यादि, तत्र वृक्षाः चूतादयः, गुच्छा वृन्ताकीप्रभृतयः, गुल्मा नवमालिकाप्रभृतयः, लताऽशोक // 515 //
Loading... Page Navigation 1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578